________________
षष्ठः सर्गः ॥
२२३ हील० भावड़ेभ्यपुत्रः श्रीविजयदानसूरिर्मेघपुष्टे गगने प्रावृषि सूरतिबन्दिरे स्थितवान् । यथा हंसो मानससरसि
तिष्ठति ॥१३४।। हीसुं० विलसत्य'थ मेद पाटकाभिधदेशो श्वसुधाविशेषकः ।
निखिलेष्वपि मण्डलेषु यः "प्रमुखोऽङ्गा वयवेषु "वक्त्रवत् ॥१३५॥ (१) अथेति एकस्मिन्समये । (२) मेदपाटनामा देशः । (३) पृथिव्यास्तिलक इव । (४)
समस्तदेशेषु । (५) मुख्यः । (६) शरीरावयवेषु । (७) मुखमिव ॥१३५॥ हील० न्यक्षदेशमुख्यो मेदपाटकदेशोऽस्ति ॥१३५॥ हीसुं० सुरमन्दिरजित्वरश्रिया गमितं येन 'विमाननीयताम् ।
फणभृद्भुवनं ४भुवस्तलं भजति ५वीडभरोदयादिव ॥१३६॥
(१) स्वर्गलोकजयनशीललक्ष्या । (२) अवगणनाम् । (३) नागलोकः । (४) रसातलम् । ... (५) लज्जातिशयोदयादिव ॥१३६॥ हील० येन हीनीकृतो नागलोकः पातालं गतः ॥१३६॥ हीसुं० अलकायितपू:परम्पराः परमं बिभ्रति यत्र विभ्रमम् ।
"नभसोऽ'नवलम्बनच्युतेः शतशोऽशा इव भूतले “दिवः ॥१३७॥ (१) धनदनगरीवदाचरिता पुरीणां श्रेणयो यत्र । (२) उत्कृष्टशोभाम् । (३) धारयन्ति । (४) आकाशात् । (५) आधाररहितत्वेन पतनात् । (६) शतसङ्ख्याः विभागाः । (७)
भूमण्डलोपरि। (८) स्वर्गस्य ॥१३७॥ हील० यत्रालकासदृशाः पुर्यः शोभन्ते । उत्प्रेक्ष्यते । आकाशानिराधारत्वेन च्युतिर्यस्यास्तादृश्या दिवः
स्वर्गस्य शतमंशाः ॥१३७॥ हीसुं० त्रिजगद्विजयोद्यतस्य 'यद्वनराज्यो ३रतिजानिधन्विनः ।
"सुमसङ्गतषट्पदा ५धनुर्विशिखोल्लासि खलूरिका इव ॥१३८॥ (१) त्रैलोक्यं जेतुं कृतोद्यमस्य । (२) नारदपुरीवनश्रेणयः । (३) कामधनुर्धरस्य । (४)
पुष्पेषु मकरन्दपानार्थं लीनभृङ्गा यासु । (५) कोदण्ड बाणयुक्ताः शस्त्राभ्यासभुव इव ॥ हील० अलिकलितपुष्पयुक्ता वनश्रेण्यः शोभन्ते । उत्प्रेक्ष्यते । कामस्य धनुभिर्बाणैः शोभिन्यः खलूरिका
धनुर्विद्याभ्यसनभूमयः ॥१३८॥ हीसुं० 'श्रितनागसगन्धसा[ र]भूरुहमाला व्यलसनिहाचलाः ।
मलयस्य 'विलासमूर्तयः रेशमनाशाङ्कम पास्य हृष्यतः ॥१३९।।
1. अथ विजयसेनसरिदीक्षावसर: हील.। 2. इति मेदपाटमण्डल: हील०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org