SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २१६ 'श्री हीरसुन्दर' महाकाव्यम् हील० निर० । श्रीसुरिणा मुहूर्तं गृहीतम् । पुनश्चाङ्गामन्त्रिणा श्लोघ्योत्सव: आरब्धः ॥१०१।। हीसुं० अथ 'शिल्पिचणैर चीकरन नुवादैरिव "विश्वकर्मणः । मणिमण्डपमं शुडम्बराधरितादित्यममात्यमानवाः ॥१०२॥ (१) शिल्पिचणैः-प्रकृष्टविज्ञानिभिः । (२) कारयन्ति स्म । (३) प्रतिरूपैः । ( ४ ) त्वष्टुः । (५) किरणाडम्बरेण तिरस्कृतमार्तण्डम् ॥१०२॥ हील० देवसूत्रधारसदृशैः शिल्पिषु चतुरैर्मन्त्रिमा रत्नमण्डपं कारयन्ति स्म ॥१०२ ॥ हीसुं० 'मणिकल्पितशिल्पकौतुकप्रकरालोकनलालसाशयाः । त्रिदशास्त्रि'दशीसखादिवः किमिहालेख्यमिषादुपागमन् ॥१०३॥ (१) रत्नै रचितविज्ञानीकुतूहलनिकरनिरीक्षणे लम्पटचित्ताः । (२) देवीयुताः । (३) चित्रकपटात् ॥१०३॥ हील० उत्प्रेक्ष्यते । चित्रदम्भाद्देवीयुक्ता देवा आगताः ॥१०३।। हीसुं० 'समुहूर्त्तदिने गुरुः समं मुनिभिर्मण्डपमध्यमीयिवान् । सदसः सदनं 'धुसद्मभिः प्रतिपन्थी पृथिवीभृतामिव ॥१०४॥ (१) सूरिः । (२) निश्चितवासरे । (३) समेतः । (४) सभागृहम् । “नृपस्य नातिप्रमना: सदोगृह"मिति रघुवंशे । (५) देवैः । (६) शक्रः ॥ १०४ ॥ हील० स मु० । स सूरिः साधुसहितो मण्डपमागतः । यथा गिरिवैरीन्द्रो देवैः सह सभागृहमागच्छति ॥१०४।। हीसुं० 'इदमीयमहामहेक्षणोपनतैः पौरनरैः परःशतैः । __ निभृतं भ्रियते स्म न मण्डपो "नवकासार इवाम्बुदाम्बुभिः ॥१०५॥ (१) सूरिपदसम्बन्धिमहोत्सवविलोकनार्थमागतैः । (२) सहस्रसङ्घयैः । (३) निर्भरम् । (४) नवीनसर इव । (५) मेघनारैः ॥१०५॥ हील० इदमी० । अस्य पदोत्सवालोकनार्थमागतैर्लक्षबद्धनरैर्मण्डपोऽत्यर्थं भ्रियते स्म । यथा नवीनतडाक: मेघजलैनिर्भरं पूर्यते ।। १०५ ।। हीसुं० 'त्रिशलातनुजन्मशासनाभ्युदयं 'मूर्त्तमिव व्रतीश्वरम् । यतिभिस्तम जूहवद्गुरु स्त्रिदशीशंसितभाग्यवैभवम् ॥ १०६ ॥ (१) महावीरशासनस्योदयम् । (२) मूर्त(ति)मन्तमिव । (३) हीरहर्षोपाध्यायम् । (४) साधून्प्रेषित्वा । (५) आकारयति स्म । (६) शासनदेवीकथितपुण्यसम्पदम् ॥१०६॥ हील. त्रिश० । श्रीसूरिः व्रतिभिस्तं हीरहर्षोपाध्यायं आकारयामास । उत्प्रेक्ष्यते । श्रीवर्द्धमानस्वामिनः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy