SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ २१७ षष्ठः सर्गः ॥ शासनस्य मूर्तिमन्तमभ्युदयमाह्वयतीव ॥१०६॥ हीसुं० गगनात्मरसेन्दुहायने विशदे 'पोषजपञ्चमीदिने । ३धृतशीतरुचीरुचिच्छलोज्ज्वलवस्त्रे किमु तत्पदोत्सवे ॥ १०७ ।। 'व्रतिवारिधिनेमि'नायकः स्वपदे स्थापितवान्स वाचकम् । इव "पञ्चमकं 'गणाधिपं त्रिशलायास्तनुजो जिनेश्वरः ॥१०८॥ युग्मम् ॥ (१) विक्रमार्कादशाधिकषोडशशतवर्षांतिक्रमे । (२) पोषशुक्लपञ्चमीवासरे। (३) परिधृतचन्द्रचन्द्रिकाज्व(कोज्ज्वल)वसने । (४) हीरहर्षोपाध्यायस्याचार्यपददानमहोत्सवे ॥१०७॥ (१) विजयदानसूरिः । (२) निजपदे । (३) स्थापयति स्म । (४) सुधर्मस्वामिनम् । (५) गणधरम् । (६) महावीरजिनः ॥ १०८ ॥ हील. उज्ज्वले पोषमासस्य पञ्चमीदिने । उत्प्रेक्ष्यते । तस्य पदोत्सवे धृतं परिहितं, शीतरुचीरुचिश्चन्द्रचन्द्रिका तस्याश्छलेनोज्ज्ववलं वस्त्रं येन एवंविधे एव वासरे ॥१०७-*१०८।। हीसुं० हदि 'हीर इवैष विष्टपे विजयोऽस्यैव पुनर्भविष्यति । ४अत एव कृतास्य “सूरिणा विजयाह्वा किमु हीरपूर्विका ॥१०९।। (१) हदि अर्थाज्जगतां हृदये । ( २ ) हीर इव वज्रमणिरिव । जनभाषया "हीरो" । रहस्यं च तद्भविष्यति । (३) भुवनेऽस्यैव विजयो भावी । ना परस्येति । (४) अतः कारणात् । (५) विजयदानसूरिणा । (६) हीरहर्षस्य । (७) हीरविजयसूरिरिति नाम निर्ममे ॥१०९॥ हील० हृदि । एतदीयाभिधा हीरविजयसूरिरिति चक्रे ॥१०९॥ हीसुं० इदमेव दिनं जगत्पतेरभिषेकाहमितीव सम्मदात् । "उदयादिमसिंहभूमिमानभिषिक्तोऽत्र रेतदैव "बाहुजैः ॥११०॥ (१) अयमेव दिवसः चक्रवर्त्यादीनामभिषेक्तुं योग्यः । (२) अत्र शिवपुर्याम् । (३) तस्मिन्नेव दिने । (४) राजन्यैः । (५) उदयसिंहो नृपो राज्येऽभिषिक्तः ॥११०॥ हील० चक्रवर्त्यादेरभिषेकयोग्यं इदमेव दिनम् । अत एव श्रीरोहिणीमण्डलराज्ये राजन्यैरुदयसिंह भूप: स्थापितः ॥११०॥ हीसुं० १भूवि 'मङ्गलतूर्यनिस्वनो दिवि "दिव्योऽजनि “दुन्दुभिध्वनिः । इति तौ किमु शंसतो “गुरुर्न ऋतेऽस्मादपरोऽस्ति रोदसोः ॥१११॥ (१) भूमौ । (२) श्रेयःसूचकवाद्यनिनादः । (३) आकाशे । (४) देवसम्बन्धी । (५) भेरीशब्दः । (६) द्वावपि शब्दौ । (७) कथयत इव । (८) द्यावापृथिव्यो_विजयसूरिभ्यः 1. वासव० । हीमु० । 2. मुगराजध्वजतीर्थनायकः । हीमु० । 3. संवत् १६१० पोषशुक्लपञ्चमीदिने हीरहर्षवाचकस्य सुरिपदस्थापना । इति हीरविजयसरेराचार्यपदम् । हील. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy