________________
२१८
'श्री हीरसुन्दर' महाकाव्यम् कोऽपि असाधारणगुणो गुरुर्नास्ति ॥१११॥ हील० तौ द्वौ निनादौ इति कथयतः । इतीति किम् ? द्यावापृथिव्योर्विषये एतस्मादपरो गुरुर्नास्ति ॥१११॥ हीसुं० 'पिकपञ्चमकूजितक्वणास्तम गायन्द्वयरेणुकोदरीगणाः ।
४अदसीययशोजिगासयो"पगता: किंपुरुषाङ्गना इव ॥११२॥ (१) कोकिलानां पञ्चमालापतुल्यध्वनयः । (२) गायन्ति स्म । (३) स्त्रियः 'शृङ्गारसर्गद्वयणुकोदरीय"मिति नैषधे । (४) हीरविजयसूरेर्यशसां गातुमिच्छया । (५) गताः । (६)
किन्नर्य इव ॥११२॥ हील० पिकपञ्चमारववत् नादो यासां तादृशा वध्वस्तं गायन्ति स्म । उत्प्रेक्ष्यते । एतद्यशो गातुमागताष्कि
(: किं)नर्यः ॥११२॥ हीसुं० 'त्रिजगन्नयनामृताञ्जनं शुशुभाते 'यतिपुङ्गवावुभौ ।
सुरभीकृतभूतलौ यशः सुमनोभिर्म धुमाधवाविव ॥११३॥ (१) त्रिभुवनजनलोचनेषु सुधाञ्जनतुल्यौ । (२) विजयदान-हीरविजयसूरीश्वरौ । (३)
वासितमहीमण्डलौ । (४) कीर्तिपुष्पैः । (५) चैत्र-वैशाखमासाविव ॥११३॥ हील० त्रिज० । यथा चैत्र-वैशाखमासौ पुष्पैदिशः सुरभयतस्तद्वद्यशोभिः सुरभीकृतभूतलौ सूरीन्द्रौ
शुशुभाते ॥११३॥ हीसुं० धुसदामिव 'मेदि[ नी हौ 'जगतीजङ्गमतानुषङ्गिनौ ।
स्म विभूषयतः क्रमेण तौ रेविहरन्ता वणहिल्लपत्तनम् ॥११४॥
(१) कल्पवृक्षाविव । (२) पृथिव्याम् । (३) सञ्चरन्तौ । (४) अणहिल्लनामपत्तनम् ॥११४॥ हील० द्युस० । जङ्गमामरलतासदृशौ विचरन्तौ तावणहिल्लपत्तनं आगतौ ॥११४।। हीसुं० श्रमणधुमणी 'मणीव तौ मुनिमुक्तावलिमध्यशालिनौ ।
पुरि तत्र तमोनिशुम्भनौ 'गणलक्ष्मी: 'मदयांबभूवतुः ॥११५i? (१) सूरीश्वरौ । (२) नायकरत्ने इव । (३) साधुरूपहारयष्टिमध्यस्थौ । (४)
अज्ञानान्धकारद्वेषिणौ । (५) तपगच्छलक्ष्मीम् । (६) शृङ्गारकलितां चक्रतुः ॥११५॥ हील० मुनिमार्तण्डौ मुनिपङ्क्तिमुक्ताहारे मध्यमणीसदृशौ ध्वान्तरिपू तौ तपागच्छलक्ष्मी मदयांबभूवतुः ।
शृङ्गारकलितां कुर्वाते स्मेत्यर्थः । मणीवादिवर्जमिति द्विवचनेऽपि सन्धिः स्यात् ।।११५|| हीसुं० अथ 'तत्र 'समर्थनामभृद्भण साली भवति स्म भूतिमान् ।
सचिवो यवनस्य भूभुजो मतिवाद्धिश्चरणकाङ्गजन्मवत् ॥११६॥ 1. इत्याचार्यपदमहोत्सवः हील० । 2. इति द्वयोः सूरीन्द्रयोः पत्तने पादावधारणम् हील० । 3. ०शाली हीमु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org