SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१५ षष्ठः सर्गः ॥ हीसुं० वतिनामिव 'तथ्यभाषिणां जनिभाजां विपिनाभ्रचारिणाम् । ५श्रमणेन्दुरवेक्षयत्पुनः स निमित्तानि निमित्तवेदिभिः ॥ ९७ ॥ (१) साधूनामिव । (२) सत्यभाषणशीलानाम् । (३) प्राणिनाम् । (४) वनचारिणां गगनचारिणां च । (५) विजयदानसूरिः । (६) शकुनानि । (७) शकुनज्ञैः ॥१७॥ हील० यतिनामिव सत्यवादिनां मृगशृगालादयो वनचारिणः, चाष-खञ्जन-शिखि-तित्तिर-देवी-भारद्वाजादयो गगनचरास्तेषां प्राणिनां शकुनानि स सूरिविलोकयति स्म ॥९७|| हीसुं० न्यगदनिति ते पुरो गुरोः "सितपक्षादिव 'शीतदीधितेः । उदयो भविता पदस्य ते भुवि कुराङ्गज'साधुपुङ्गवात् ॥ ९८ ॥ (१) कथयन्ति स्म । (२) इत्यमुना प्रकारेण । (३) निमित्तवेदिनः । (४) शुक्लपक्षादिव। (५) चन्द्रः । (६) हीरहर्षोपाध्यायात् ॥ ९८ ॥ हील० शकुनज्ञा निगदन्ति स्म । यथोज्ज्वलपक्षाच्चन्द्रोदयस्तद्वद्धीरहर्षवाचकत उदयो भावी ॥*९८|| हीसुं० विधुवद्गणपुङ्गवं नवोदयमालोकयितुं हृदी'च्छता । अथ "सूरिपदार्पर्णाविधौ ‘प्रभुरागृह्यत धीसखेन सः ॥ ९९ ॥ (१) चन्द्रमिव । (२) सूरीन्द्रम् । (३) वाञ्छता । (४) आचार्यपदप्रदानप्रकारे । "सेवाचणदर्पणार्पणा'"मिति नैषधे । (५) सूरिः । (६) चाङ्गाख्यसङ्घनायकेन ॥१९॥ हील० 'धीसखेनेति अर्थात् शिवपुरी[सङ्घपुरः]सरीकृतं चाङ्गमन्त्रिणाचार्यपदार्थमाग्रहः कृतः ॥९९।। हीसुं० १अवधार्य 'तदाग्रहं हितामिव वाणी भणितां 'हितैषिणा । तत ओमिति "वक्त्रवारिजं वचसा योजितवान्स 'तत्पुरः ॥ १०० ॥ (१) हृदये निधाय । (२) चाङ्गाख्यस्याग्रहम् । (३) पथ्यामिव । (४) कथिताम् । (५) सुखकाङ्क्षिणा । (६) ओमिति स्वीकारे वचनम् । (७) वदनकमलम् । (८) सङ्घपतिपुरः ॥१०॥ हील० यथायतौ हितां वाणी मित्रेणोक्तां कश्चिद्हृयवधारयति तद्वत्तदाग्रहां ज्ञात्वा ओमितिस्वीकारवाक्यं वदति स्म ॥१००॥ हीसुं० निरधारि मुहूर्त्तमात्मना गणकैः श्रीश्रमणावनीन्दुना । महनीयमहो 'विवाहवत्पुनरारभ्यत मन्त्रिणा पुरे ॥१०१।। (१) निश्चयीकृतम् ( २ ) ज्योतिषिकैः । (३) सूरिणा । (४) प्रशस्योत्सवः । (५) पाणिग्रहणे इव । (६) प्रारब्धः । (७) शिवपुर्याम् ॥१०१॥ 1. वाचकेन्द्रतः हीमु० । 2. इति शकूनावलोकनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy