SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१४ 'श्री हीरसुन्दर' महाकाव्यम् हील० प्रणि० । गुरोः पुर इत्युक्त्वा पुनष्प ( : प ) दं प्रणम्य शासनाधिष्ठात्री अदृश्यीभूता । यथा मेघमाला गर्जित्वा विनम्योन्नतीभूयार्थाद्वर्षित्वा तिरोधत्ते, अदृश्या स्यात् ॥९२॥ हीसुं० स तदीयगिरं निपीय तां शितिवल्लीमिव हेमकन्दलः । १ 'मुदन्तरनुत्तरां दधद्ग' मयामास दिनांनि कानिचित् ॥९३॥ हील० स त । स सूरिर्देवीवचनं श्रुत्वा यथा प्रवाल: कृष्णलतां 'कालिवेलि' नाम्नीं धत्ते तद्वदसाधारणां मुदं दधन् कियन्ति दिनानि कियत्प्रमाणान्वासरान्गमयामासातिक्रामति स्म । पीत्वेत्यत्यादरेण निशम्येत्यर्थः ॥९३॥ ( १ ) शासनदेवतासम्बन्धिनीं वाणीम् । ( २ ) पूर्वोक्ताम् । (३) कृष्णवल्लीम् । ( ४ ) विद्रुमः । (५) हर्षम् । (६) चित्ते । (७) असाधारणाम् । (८) अतिक्रामति स्म ॥ ९३ ॥ हीसुं० अथ 'साधुसुधाशनाधिपः प्रणिधानं परिपूर्य सूर्यरुक् । "शशभृत्श' रदभ्रकादिव 'प्रणिधानास्पदतो 'विनिर्ययौ ॥९४॥ हील० (१) विजयदानसूरिः । (२) ध्यानम् । ( ३ ) समाप्य । ( ४ ) रविरिव कान्तिर्यस्य । (५) चन्द्रः । ( ६ ) शरत्कालोत्पन्नजलरिक्तघनाभ्रकादिव । (७) ध्यानगृहात् । ( ८ ) निर्गतः ॥९४॥ अथ । सूर्यवत्कान्तिर्यस्य तादृशः सूरीन्द्रः ध्यानगृहान्निर्गतः । यथा शरदोऽभ्राच्चन्द्रो निर्गच्छति ॥९४॥ हीसुं० स बभाज 'समाजमात्मना श्रमणानां श्रमणाव 'नीमणिः । *क्षितिमानिव "बाहुजन्मनां विलसन्मङ्गलतूर्यनिस्वनैः ॥९५॥ हील० (१) मुनिसभ( भाम्) । (२) शिश्राय । ( ३ ) विजयदानसूरिः । (४) राजेव । (५) सुभटानाम् । (६) वाद्यमानमङ्गलवाद्यैः ॥९५॥ ० स० । मङ्गलध्वनिभिः स सूरिः साधुनां पर्षदं बभाज । यथा राजा राजन्यानां पर्षदं भजते ॥९५॥ हीसुं० 'जहिरे मिहिरौजसा महीपतिना 'चारचरा नरास्तदा । 24 अरुणाभ्युदयेन षट्पदा इव पङ्केरुहकोशवासिनः ॥ ९६ ॥ ३ ( १ ) त्यक्ताः । ( २ ) सूर्यतुल्यप्रतापेन । ( ३ ) दूदानृपेण । ( ४ ) कारागारस्थायिनो जनाः । (५) अरुणोदयेन । (६) भ्रमराः । (७) कमलमुकुलस्थायिनः ॥९६॥ पतङ्गप्रतापेन नृपेन(ण) बन्दीजना मुमुचिरे । यथा विकसितकमलौघेन प्रातर्मुकुलसुप्ता अलिनो मुच्यन्ते ॥९६॥ 1. वनीशिता हील० । 2. भ्रमरा इव कोशशायिनो दिववको स्मितपद्मराशिना । हीमु० । 3. इति सूरेर्ध्यानविधानानन्तरं ततो बहिरागमनम् हील० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001448
Book TitleHirsundaramahakavyam Part 1
Original Sutra AuthorDevvimal Gani
AuthorRatnakirtivijay
PublisherJain Granth Prakashan Samiti
Publication Year1996
Total Pages350
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Literature, & Biography
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy