Book Title: Hirsundaramahakavyam Part 1
Author(s): Devvimal Gani, Ratnakirtivijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 237
________________ 'श्री हीरसुन्दर' महाकाव्यम् (१) आश्रिता गजा याभिस्तथा सह गन्धैष्प ( : प ) रिमलैस्तथा सारैर्मज्जि ( ज्जा ) भिर्वर्त्तन्ते ये तादृशास्तरुश्रेणयः । मलयाचलपक्षे- आश्रिता भुजङ्गा याभिस्तादृशाश्चन्दनतरुपङ्क्तयः । ( २ ) क्रीडाकायाः । ( ३ ) यमवाञ्छाक्रोडं तत्त्वतस्तु दक्षिणदिश उत्सङ्गम् । ( ४ ) त्यक्त्वा ॥१३९॥ हील० श्रिता नागाः - सर्पा हस्तिनो वा तथा सह गन्धैः सारैर्मज्जिभिश्च वर्त्तन्ते, तादृशा वृक्षा येषु । तत्त्वतश्चन्दन वृक्षयुक्ताः पर्वताः शोभन्ते । उत्प्रेक्ष्यते । यमस्य वाञ्छाया अङ्कमुत्सङ्गम् । तत्त्वतः दक्षिणदिक्क्रोडम् । त्यक्त्वा मुदितस्य मलयगिरेः क्रीडार्थं कायाः ॥१३९॥ हीसुं० इह नीवृति नारदाभिधा नगरी नागपुरीव राजते । बलिराजविराजितान्तरा रममाणानणुभोगिभाजिनी ॥१४०॥ २२४ (१) मेदपाटे । (२) बलवत्ता राज्ञा शोभिता । पक्षे- बलिनाम्ना राज्ञा शोभिता । ( ३ ) स्वैरं क्रीडन्तोऽनणवो महान्तो भोगभाजो राज्यादिसातयुताः पुरुषास्तान्भजन्ते इत्येवंशीला । पक्षेखेलत्प्रलम्बभुजगयुक्ता ॥ १४०॥ हील० इह नी० । मेदपाटे नडुलाई बलिष्ठराज्ञा युक्ता । पुनर्बहुधनाढ्यैरहिभिर्वा युक्ता शोभते । उत्प्रेक्ष्यते । भोगा (ग) वती ॥१४०॥ हीसुं० 'उपमातुमिवामरावतीं भुवनं तन्निभभावदुर्विधे । कृतवानरविन्दनन्दनः पुरमेतां विबुधैरुपासिताम् ॥१४१॥ ( १ ) उपमायुक्तां कर्त्तुम् । ( २ ) तत्तुल्यापरनगरदरिद्रे । ( ३ ) ब्रह्मा । "पद्मनन्दनसूतारिरंसुना” इति नैषधे । तद्वदरविन्दनन्दनः । (४) पण्डितैर्देवैश्च । (५) सेविताम् ॥१४१॥ हील० अमरावतीतुल्यार्थैर्दरिद्रे जगति तत्सदृशामेनां विधिरकरोत् ॥ १४१ ॥ हीसुं० 'युवती युवराजिराजिते नगरे सालनिभान्म ेनोभवः । स्थितवान्नव सूरिसाध्वसादिव दुर्गं प्रविधाय ५ सानुगः ॥१४२॥ ( १ ) तरुणी तरुणश्रेणीभूषिते । (२) प्राकारकपटात् । ( ३ ) स्मरः । ( ४ ) नवीनः सूरिः श्रीहीरविजयसूरिस्तस्य भयात् । (५) ससेवकः ॥ १४२ ॥ हील० पुरदुर्गदम्भात्कोट्टं कृत्वा । उत्प्रेक्ष्यते । स्वसेवकयुक्तः कामः स्थितः ॥ १४२ ॥ हीसुं० 'यदनन्यहिरण्यशीतरुग्मणिक्लृप्तालयलक्ष्मिकाङ्क्षया । चरणं ( १ ) यस्याः पुर्या असाधारणानां स्वर्णैश्चन्द्रोपलैः कल्पितानां गृहाणां शोभां प्राप्तुं वाञ्छन्तौ । (२) विष्णुपदम् । (३) सूर्याचन्द्रमसौ । "हरिः शुचीनौ गगनाध्वजाध्वगा" विति हैम्याम् ॥ (४) भजेते स्म ॥१४३॥ हील० यस्य पुरस्य साधारणस्वर्णैश्चन्द्रकान्तमणिभिः कृतगृहशोभेच्छया सूर्यचन्द्रौ विष्णुपदं सेवेते स्म ॥१४३॥ वैरिणोऽनिशं शुचिचन्द्रावु पचेरतुः किमु ॥ १४३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350