Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 15
________________ क्रियाद्वयं कर्तुमीशो भवति, क्रियाभेदे कर्तृभेदात् । ततो द्वितीयक्रियाक्षणे कर्तुरनित्यत्वाभावप्रसङ्गाभ्यां द्वयोरप्यपाकृतिरिति । तथा सकलगुणरत्नकुलगृहमित्यनेन भगवतः समस्तसुरासुरमनुजनायकेषु प्राधान्यमभ्यधायि । तेषां कस्यापि केनापि गुणेन विकलतया सकलशब्दप्रवृत्तेरयोगात् । तथा विमलकेवलमित्यनेन भगवतो ज्ञानातिशयसंपन्नतया तथ्यार्थवादित्वमुक्तम् । तदन्तरेण सूक्ष्मबादरमूर्त्तामूर्त्तादिभावानां याथातथ्येन वक्तुमशक्यत्वात् । तथा धर्मस्वार्थिभ्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्य लिङ्गमित्यवाचि । तथा चाहुवृद्धा: - " तत्थहिगारी अत्थी समत्थओ जो न सुत्तपडिकुट्ठो । अस्थी तु जो विणीओ समुवडिओ पुच्छमाणी य ॥१॥” जनानामित्यनेन बहुवचनान्तेनैतदुदितम् । नैकमेवेश्वरादिकमाश्रित्योपदेशदाने प्रवर्त्तितव्यमपि तु सामान्येन सर्वसाधारणतया जिनागमानुसारेण । स चायम् - " जहा पुन्नस्स कत्थई तहा तुच्छस कत्थई । जहा तुच्छास कत्थई तहा पुनस् कत्थई || १ || " वितराम्युपदेशमितीहैतदा कृतम् - न प्रज्ञागर्वेण, न पराभिभवेच्छया, नापि कस्यचिदुवार्जनाय प्रवर्त्तते । किं तर्हि ? कथं नु नामामी प्राणिनः सद्धर्ममार्गमासाद्य साद्यपर्यवसितं शिवशर्माऽवाप्स्यतीत्यनुग्रहबुद्धधा परेषामात्मनश्च । यतोऽभाणि पूर्वाचार्यैः – “शुद्धमार्गोपदेशेन यः सच्चानामनुग्रहम् । करोति नितरां तेन कृतः स्वस्याप्यसौ महान् ॥ १ ॥ " किं च-"न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ||२||" इत्युक्तः सभावार्थः पदार्थः । पदविग्रहस्तु समासादिकपदेषु प्रदर्शित एवेति न पृथगुच्यते । अथ चालना - ननु सकलगुगरनकुलगृहमित्युक्ते विमल केवलमित्यपार्थकम्, केवलज्ञानस्यापि गुणत्वात् सकलशब्दस्य च सर्वसङ्ग्रहार्थत्वादित्यत्रोच्यते - सर्वगुणेषु प्राधान्योपदर्शनार्थमस्य पृथगुपन्यासः सत्यस्मिन्नवश्यं परमपदप्राप्तेर्दृश्यते चायं न्यायो लोकेऽपि यथा - 'ब्राह्मणा आयाताः वशिष्ठोऽप्यायातः' इत्यादौ ।

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 178