Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 143
________________ प्रमादस्यैव युक्त्यन्तरेण निषेधमाहपडिलेहणाइचेट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ होइ ॥११२॥ प्रत्युपेक्षणा मुनिजनप्रतीता, आदिशब्दाद्गमनादिग्रहः, चेष्टा क्रियाव्यापारः, इत्यनर्थान्तरम् । षट्कायविराधि( घाति )नी 'प्रमत्तस्य ' साधोः 'भणिता' उक्ता 'श्रुते' सिद्धान्ते । तद्यथा-"पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएड सयं पडिन्छन वा ॥ १॥ पुढवीआउकाए तेऊवाऊवणस्सइतसाणं। पडिलेहणापमत्तो छण्डपि विराहओ होइ ॥२॥" तस्मात्सर्वव्यापारेष्वप्रमादी सुविहितो भवतीति पूर्वत्रापि योज्यम् । तच्चार्थतो योजितमेव । इति गाथार्थः ॥ ११२ ।। अथ कीदृगप्रमादी स्यात् ? इस्याहरक्खइ वएसु खलियं उवउत्तो होइ समिइगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिरचित्तो॥११३॥ रक्षति' अकरणबुद्धया परिहरति 'व्रतेषु' विषयभूतेषु ' स्खलित' अतिचारम् । तत्र प्राणातिपातविस्तौ त्रसस्थावरजन्तूनां संघट्टनपरितापनोपद्रावणानि न करोति । मृपावादविरतो सूक्ष्ममनाभोगादिना, बादरं 'वचनाभिसन्धिना न भाषते। अदत्तादानविस्तौ मूक्ष्ममननुज्ञाप्य कायिकादि न करोति, बादरं स्वामिजीवतीर्थकरगुरुभिरननुज्ञातं नादत्त, नापि परिभुझे। चतुर्थव्रते दशब्रह्मचर्यस्थानानि सम्यगाराधयति । पञ्चमव्रते सूक्ष्म वालादिममत्वं न करोति, बादरमनेषणीयाहारादि न गृहाति 'परिग्गहोणेसणग्गहणे' इत्याप्तवचनात् । उपकरणं चाधिकं मूर्छया न धारयति । रात्रिभक्तविरतौ सूक्ष्ममामोद्दारादि रक्षति, बादरं तु दिवा १ “ वञ्चनाभिसंधिना' इत्यपि ॥

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178