Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 142
________________ धर्मरनप्रकरणम् ॥ ६५ ॥ निद्राप्रमादोऽप्युचित एव विधेयः । तद्यथा - " पठमा पोरुसि सज्झायं बीया ज्झाणं ज्झियाय । तइयाए निदसोक्खं तु सज्झायं च चउत्थि ।। १ ।। " कथास्वप्ययमुपदेशः - " आक्षेपणविक्षेपणविमार्गबाधनसमर्थविन्यासम् । श्रोतृजनश्रोत्रमनः प्रसादजननीं यथा जननीम् ॥ १ ॥ संवेदनीं च निर्वेदनीं च धर्म्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाच दूरात् परित्याज्याः ॥ २ ॥ " तदेवमागमनिषिद्धविकथादिप्रमादयुक्तेः संयमः प्रतिपालयितुं न शक्यते, अतोऽसौ न विधेयः । इति गाथाभावार्थः ॥ ११० ॥ प्रमादस्यैव विशेषतोऽपायहेतुतामाह पव्वज्जं विज्जपित्र साहितो होइ तो पमाइलो । तस्सन सिज्झइ एसा करेइ गरुयं च अवयारं ॥ ११९॥ ' ' प्रव्रज्यां' जिनदीक्षां विद्यामिव साधायन् भवति यः 'पमाइल्लो' इति प्रमादवान् " मउवत्थमि 'मुणेज्जह आलं इलं मणं इत्तं " इति देशी वचनात् । 'तस्य' प्रमादवतो न सिध्यति ' न फलदानाय संपद्यते ' एषा दीक्षा विद्येव, वकारस्य भिन्नक्रमत्वात् करोतीति च ' गुरुं महान्तं ' अपकारं ' अनर्थमिति । भावार्थः पुनरिह — प्रमादवतः साधकस्य यथा विद्या फलदा न भवति, ग्रहसंक्रमादिकमनर्थकं च संपादयति, तथा शीतलविहारिणो जिनदीक्षाऽपि न केवलं मोक्षादिसंपत्तये न भवति, ( किन्तु ) दीर्घभवभ्रमणापायं च विदधाति । उक्तं च-- “ सीयलविहारओ खलु भगवंतासायणानिओगेण । तत्तो भवो सुदीहो किलेसबहुलो जओ भणियं ॥ २ ॥ तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीर्यं । आसायंतो बहुसो अनंतसंसारिओ होइ ॥ २ ॥ " तस्मादप्रमादिना सुविहितेन भाव्यम् । इति गाथार्थः ॥ १११ ॥ १' सुणेज्जह' इत्यपि ॥ स्वोपज्ञवृतियुक ।। ६५ ।।

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178