________________
धर्मरनप्रकरणम्
॥ ६५ ॥
निद्राप्रमादोऽप्युचित एव विधेयः । तद्यथा - " पठमा पोरुसि सज्झायं बीया ज्झाणं ज्झियाय । तइयाए निदसोक्खं तु सज्झायं च चउत्थि ।। १ ।। " कथास्वप्ययमुपदेशः - " आक्षेपणविक्षेपणविमार्गबाधनसमर्थविन्यासम् । श्रोतृजनश्रोत्रमनः प्रसादजननीं यथा जननीम् ॥ १ ॥ संवेदनीं च निर्वेदनीं च धर्म्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाच दूरात् परित्याज्याः ॥ २ ॥ " तदेवमागमनिषिद्धविकथादिप्रमादयुक्तेः संयमः प्रतिपालयितुं न शक्यते, अतोऽसौ न विधेयः । इति गाथाभावार्थः ॥ ११० ॥
प्रमादस्यैव विशेषतोऽपायहेतुतामाह
पव्वज्जं विज्जपित्र साहितो होइ तो पमाइलो । तस्सन सिज्झइ एसा करेइ गरुयं च अवयारं ॥ ११९॥
'
' प्रव्रज्यां' जिनदीक्षां विद्यामिव साधायन् भवति यः 'पमाइल्लो' इति प्रमादवान् " मउवत्थमि 'मुणेज्जह आलं इलं मणं इत्तं " इति देशी वचनात् । 'तस्य' प्रमादवतो न सिध्यति ' न फलदानाय संपद्यते ' एषा दीक्षा विद्येव, वकारस्य भिन्नक्रमत्वात् करोतीति च ' गुरुं महान्तं ' अपकारं ' अनर्थमिति । भावार्थः पुनरिह — प्रमादवतः साधकस्य यथा विद्या फलदा न भवति, ग्रहसंक्रमादिकमनर्थकं च संपादयति, तथा शीतलविहारिणो जिनदीक्षाऽपि न केवलं मोक्षादिसंपत्तये न भवति, ( किन्तु ) दीर्घभवभ्रमणापायं च विदधाति । उक्तं च-- “ सीयलविहारओ खलु भगवंतासायणानिओगेण । तत्तो भवो सुदीहो किलेसबहुलो जओ भणियं ॥ २ ॥ तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीर्यं । आसायंतो बहुसो अनंतसंसारिओ होइ ॥ २ ॥ " तस्मादप्रमादिना सुविहितेन भाव्यम् । इति गाथार्थः ॥ १११ ॥
१' सुणेज्जह' इत्यपि ॥
स्वोपज्ञवृतियुक
।। ६५ ।।