SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नेन प्रज्ञापनीयस्याप्यार्जवा देवालोचितप्रतिक्रान्तस्य शुद्धिर्भवतीत्यावेदितम् । तथा चागमः - " सोही उज्जुयभूयस्स धम्मो सुद्रस्स चि । निव्वाणं परमं जाइ घयसित्तेव पावए || १ | " ॥ १०९ ॥ इत्युक्तं भावसाधोस्तृतीयं लिङ्गम् । अथ चतुर्थ क्रियापरत्वमुच्यते तच्च प्रमादवतो न संभवतीति प्रमादपरिहारोपदेशमेव तावदाहसुगनिमित्तं चरणं तं पुण छक्कायसंजमो चेव । सो पालिडं न तीरइ बिगहाइपमा जुतेहिं ॥ ११० ॥ शोभना गतिः सुगतिः सिद्धिरेव तस्या निमित्तं कारणं 'चरणं' यतिधर्मः । तदुक्तम् - " नो अन्नहावि सिद्धी पाविज्ज‍ जं तओ इमीएवि । एसो चेव उवाओ आरम्भा वट्टमाणा उ ॥ १ ॥ " तथा " विरहिततरकाण्डा बाहुदण्डे : 'प्रचण्डं कथमपि जलराशि धीवरा लङ्घयन्ति । न तु कथमपि सिद्धिः साध्यते शीलहीनैर्दृढयत यतिवृत्ते चित्तमेवं विदित्वा ॥ १ ॥ " ' तत्पुनः ' चरणं 'पटूकायसंयम एव चकाराञ्च्चरित्रमोहनीय कर्मक्षयोपशमयेति सूचयति । सः ' पुनः संयमः ' पालयितुं ' वर्द्ध: यितुं ' ' न तीरइ' इति न शक्यते । विकथा विरुद्धकथा, आदिशब्दान्मद्यादिपरिग्रहः । उक्तं च- " मज्जं विसयकसाया निदा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पार्डेति संसारे ॥ १ ॥ " तत्र मद्यं साधूनामकल्पनीयमेव । यतोऽवाचि 44 सुरं वा मेरगं वावि अन्नं वा मज्जगं रसं । सरकखं न पिवे भिक्खू जसंसारक्खमप्पणो || १ ॥ " तथा विषयप्रमादोऽपि हेय एव । यतः सूत्रम् — “ विसएस मणुन्नेसुं पेमं नाभिनिवेसए । अणिश्चं तेसि विन्नाय परिणामं पोग्गलाण उ ॥ १ ॥ " एवं कपाप्रमादोऽपि न विधेयः । यत आर्षम् - " कोह माणं च मायं च लोभं च पाववगुणं । वमे चत्तारि दोसे उइच्छतो हियमप्पणो ॥ १ ॥” १' प्रचण्डः' इत्यपि । २ 'धीधना' इत्यपि । ३ 'ससक्यं' इत्यपि ॥ 466e6e616.
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy