________________
धर्मरन
प्रकरणम्
॥ ६४ ॥
ततः किम् ? इत्याह
सि विसयविभागं अमुणतो नाणवरणकम्मुदया। मुज्झइ जीवो तसो सपरेसिमसग्गहं जणइ ॥ १०७॥ "तेषां ' सूत्राणां विषय विभागं ' अयमस्य सूत्रस्य विषयः अयं वाहन्येत्येवरूप 'अमुणन्' अलक्षयन्' ज्ञानावरणकर्मण उदयाद्धेतोः ' मुह्यते ' मोहमुपयाति 'जीव: ' प्राणी । ततः ' स्वपरयोः ' आत्मनः परस्य च पर्युपासकस्य 'असद्ग्रह 'असबोध जनयति, जमालिवत् । इति गाथार्थः ॥ १०७ ॥
ततश्व
तं संविग्ग गुरू पर हियकरणुज्जयाणुकंपाए । बोहिंति सुसविहिणा पनवणिज्जं बियाणंता ॥ १०८ ॥
'ते' मूढं, पुनःशब्दादर्थिनं विनीतं च 'संविप्राः' प्रतीताः, 'गुरवः ' पूज्याः 'परहितकरणोद्यताः' परोपकाररसिकाः 'अनुकम्पया' मा गमदेष दुर्गति, इत्यनुग्रहबुद्धया प्रेरिताः 'बोधयन्ते ' प्रज्ञापयन्ति, 'सूत्रविधिना ' आगमोक्तयुक्तिभिः 'प्रज्ञापनीयं ' प्रज्ञापनोचितं ' विज्ञानानाः ' लक्षयन्तः । तदितरस्य सर्वज्ञेनापि बोधयितुमशक्यत्वात् । इति गाथार्थः ॥ १०८ ॥
ततः-
सोविअसग्गहवाया सुविसुद्धं दंसणं चरितं च । आराहिउं समत्थो होइ सुहं उज्जुभावाओ ॥ १०९ ॥ 'सोsपि' प्रज्ञापनीयमुनिः 'असद्ग्रहत्यागात् ' निजपरिकल्पितबोधमोचनात् 'सुविशुद्धं' अतिनिर्मलं 'दर्शनं' सम्यक्त्वं ' चारित्रं ' संयम, चशब्दात् ज्ञानतपसी च, आराधयितुं समर्थो भवति 'सुखं' यथा भवत्येवं 'ऋजुभावात् ' आर्जवगुणात् । इत्य
स्वोपज्ञवृत्तियुक्तम्
॥ ६४ ॥