________________
प्रमादस्यैव युक्त्यन्तरेण निषेधमाहपडिलेहणाइचेट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ होइ ॥११२॥
प्रत्युपेक्षणा मुनिजनप्रतीता, आदिशब्दाद्गमनादिग्रहः, चेष्टा क्रियाव्यापारः, इत्यनर्थान्तरम् । षट्कायविराधि( घाति )नी 'प्रमत्तस्य ' साधोः 'भणिता' उक्ता 'श्रुते' सिद्धान्ते । तद्यथा-"पडिलेहणं कुणंतो मिहो कहं कुणइ जणवयकहं वा । देइ व पञ्चक्खाणं वाएड सयं पडिन्छन वा ॥ १॥ पुढवीआउकाए तेऊवाऊवणस्सइतसाणं। पडिलेहणापमत्तो छण्डपि विराहओ होइ ॥२॥" तस्मात्सर्वव्यापारेष्वप्रमादी सुविहितो भवतीति पूर्वत्रापि योज्यम् । तच्चार्थतो योजितमेव । इति गाथार्थः ॥ ११२ ।।
अथ कीदृगप्रमादी स्यात् ? इस्याहरक्खइ वएसु खलियं उवउत्तो होइ समिइगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिरचित्तो॥११३॥
रक्षति' अकरणबुद्धया परिहरति 'व्रतेषु' विषयभूतेषु ' स्खलित' अतिचारम् । तत्र प्राणातिपातविस्तौ त्रसस्थावरजन्तूनां संघट्टनपरितापनोपद्रावणानि न करोति । मृपावादविरतो सूक्ष्ममनाभोगादिना, बादरं 'वचनाभिसन्धिना न भाषते। अदत्तादानविस्तौ मूक्ष्ममननुज्ञाप्य कायिकादि न करोति, बादरं स्वामिजीवतीर्थकरगुरुभिरननुज्ञातं नादत्त, नापि परिभुझे। चतुर्थव्रते दशब्रह्मचर्यस्थानानि सम्यगाराधयति । पञ्चमव्रते सूक्ष्म वालादिममत्वं न करोति, बादरमनेषणीयाहारादि न गृहाति 'परिग्गहोणेसणग्गहणे' इत्याप्तवचनात् । उपकरणं चाधिकं मूर्छया न धारयति । रात्रिभक्तविरतौ सूक्ष्ममामोद्दारादि रक्षति, बादरं तु दिवा
१ “ वञ्चनाभिसंधिना' इत्यपि ॥