SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥६६॥ ग्रहीतं दिवाभुक्तमित्यादिचतुर्विधां रात्रिभुक्ति न करोति । एवं सर्वव्रतेषु स्खलितं रक्षति । तथा 'उपयुक्तः' दत्तावधानो भवति । समितिषु प्रवीचाररूपासु, गुप्तिषु प्रयीचारामवीचाररूपासु । यत उक्तम्-“समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयव्यो । कुसलवइमुदीरंतो जं वइगुत्तोचि समिओवि ॥१॥" उपयुक्तता चास प्रवचनमात्राध्ययनोक्तविधिना विज्ञेया । सर्वस्वं चैताः सर्वसाधूनाम् । यत आह-"अष्टौ साधुमिरनिश मातर इव मातरः प्रवचनस्य । नियमेन न मौक्तव्याः परमं कल्याणमिच्छद्भिः॥१॥" | किंबहुना, वर्जयति अवद्यहेतुं प्रमादचरितं सुस्थिरचित्त इति स्पष्टार्थमेव । इति गाथार्थः ॥ ११३ ॥ तथाकालंमि अणूणतिय किरियंतरविरहिओ जहासुत्तं । आयरइ सव्वकिरियं अपमाई जो इह चरिती ॥११४॥ 'काले' अवसरे, यो यस्याः प्रत्युपेक्षणादिक्रियायाः प्रस्तावस्तस्मिनित्यर्थः । प्रस्तावमृते कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः | काले सर्वा क्रियां करोतीति योगः। कथंभृताम् ? 'अन्यूनाधिका' न प्रमादातिशयानां, नापि शून्यतया स्वस्य स्थापनार्थ वा समधिकां करोति, अवसमताप्रसङ्गात् । तथा चागमः-"आवस्सयाइयाई न करे अहवावि हीणमहियाई । गुरुवयणयलाइ तहा | भणिश्री एसो हु ओसनो ॥१॥” तथा ' क्रियान्तरविरहितः' इति एकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरं, तेन विरहितः। प्रत्युपेक्षणादि कुर्वन्न स्वाध्यायं करोति, स्वाध्यायं कुर्वन्न वस्त्रपात्रादिपरिकर्मगमनादि वेति । अत एवोक्तमाः-"इंदियत्थे विसज्जित्ता सज्झायं चेत्र पंचहा । तम्मुत्ती तप्पुरकारे उवउत्ते रियरिए ॥ १॥" नन्वेवं यत्केचन नमस्कारस्तोत्रादिसमुच्चारयन्तश्चैत्यप्रदक्षिणां ददति तदागमविरुदमिवाभाति, यतः केवलिनोऽप्युपयोगद्वयमेकदा नेष्यते, "सय्वस्म केवलिम्स जुग दोनत्थि उबओगा"
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy