________________
धर्मरत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥६६॥
ग्रहीतं दिवाभुक्तमित्यादिचतुर्विधां रात्रिभुक्ति न करोति । एवं सर्वव्रतेषु स्खलितं रक्षति । तथा 'उपयुक्तः' दत्तावधानो भवति । समितिषु प्रवीचाररूपासु, गुप्तिषु प्रयीचारामवीचाररूपासु । यत उक्तम्-“समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयव्यो । कुसलवइमुदीरंतो जं वइगुत्तोचि समिओवि ॥१॥" उपयुक्तता चास प्रवचनमात्राध्ययनोक्तविधिना विज्ञेया । सर्वस्वं चैताः सर्वसाधूनाम् । यत आह-"अष्टौ साधुमिरनिश मातर इव मातरः प्रवचनस्य । नियमेन न मौक्तव्याः परमं कल्याणमिच्छद्भिः॥१॥" | किंबहुना, वर्जयति अवद्यहेतुं प्रमादचरितं सुस्थिरचित्त इति स्पष्टार्थमेव । इति गाथार्थः ॥ ११३ ॥
तथाकालंमि अणूणतिय किरियंतरविरहिओ जहासुत्तं । आयरइ सव्वकिरियं अपमाई जो इह चरिती ॥११४॥
'काले' अवसरे, यो यस्याः प्रत्युपेक्षणादिक्रियायाः प्रस्तावस्तस्मिनित्यर्थः । प्रस्तावमृते कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः | काले सर्वा क्रियां करोतीति योगः। कथंभृताम् ? 'अन्यूनाधिका' न प्रमादातिशयानां, नापि शून्यतया स्वस्य स्थापनार्थ वा
समधिकां करोति, अवसमताप्रसङ्गात् । तथा चागमः-"आवस्सयाइयाई न करे अहवावि हीणमहियाई । गुरुवयणयलाइ तहा | भणिश्री एसो हु ओसनो ॥१॥” तथा ' क्रियान्तरविरहितः' इति एकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरं, तेन विरहितः।
प्रत्युपेक्षणादि कुर्वन्न स्वाध्यायं करोति, स्वाध्यायं कुर्वन्न वस्त्रपात्रादिपरिकर्मगमनादि वेति । अत एवोक्तमाः-"इंदियत्थे विसज्जित्ता सज्झायं चेत्र पंचहा । तम्मुत्ती तप्पुरकारे उवउत्ते रियरिए ॥ १॥" नन्वेवं यत्केचन नमस्कारस्तोत्रादिसमुच्चारयन्तश्चैत्यप्रदक्षिणां ददति तदागमविरुदमिवाभाति, यतः केवलिनोऽप्युपयोगद्वयमेकदा नेष्यते, "सय्वस्म केवलिम्स जुग दोनत्थि उबओगा"