________________
इत्यागमश्रुतेः, इत्यत्रोच्यते, केवलिनो युगपदुपयोगद्वयं नास्तीत्येतन ज्ञापकं, तस्य सामयिकोपयोगापेक्षत्वात् , छमस्थोपयोगस्यान्तमौहर्तिकत्वात् , तेषां च पदे पदेऽसंख्येयानां भावात् , जीववीर्यस्य चाचिन्त्यत्वात् , शीघ्रकारित्वाच्च, ईर्यासमितावप्युपयोगःसंभवत्येव । तर्हि किमर्थमुक्तं सूत्रे 'इंदियत्थे विसज्जित्ता' इत्यादि, इति चेत् ? सत्यम् । भिन्न विषयापेक्षं तत्तथा हि भिक्षाचर्यादिक्रिया भिन्ना स्वाध्यायश्च भिन्नार्थ इति । स्वाध्यायोपयोगे ईर्योपयोगासंभवः । प्रदक्षिणायां पुनर्मनोवाकार्यर्जिनवन्दनमेव चिकोर्षितमित्यभिन्नविषयता । तत्रोपयोगद्वयं त्रयं वा न विरुद्धम् । यत एवमागमः-"भिन्नविसयं निसिद्धं किरियादगमेगया न एगंमि । जोगतिगस्सवि भगियत्ते किरिया जओ भणिया ॥ १॥" तथा-" सव्वत्थवि पणिहाणं तग्गयकिरियाभिहाणयनमु। अत्थे क्सिए य तहा दिद्रुतो छिन्नजालाए ॥१॥” तस्मात्संविग्नव्यवहारेण मन्दगत्या प्रदक्षिणायां स्तुतिपाठे न कश्चिद्दोषः, अपि तु त्रियोगसा रमनुष्ठानमाराधितं भवतीत्यलं प्रसङ्गेन । 'यथामत्रम्' इति सूत्रोक्तस्याऽनतिक्रमेण । तत्पुन:-"सुत्नं गणहररइयं तहेव पत्तेयबुद्ध
रइयं च । सुयकेवलिणा रइयं अभिन्नदसविणा रहयं ॥१॥" तेषां निश्चयसम्यग्दृष्टित्वेन सद्भतार्थवादित्वादन्यग्रथितमपि तदनु| यायिप्रमाणमेव, न पुनः शेषमिति । आचरति सर्वक्रियामप्रमादी य इह चारित्रीति सुगममेव । इति गाथार्थः॥ ११४ ।। ।
उक्तं चतुर्थ भावसाधुलिङ्गं, अधुना पश्चममाह| संघयणादणुरूवं आरंभइ सक्कमेवट्ठाणं । बहुलाभमप्पच्छेयं सुयसारविसारओ सुजई ॥ ११५ ॥
सहननं वचर्षभनाराचादि, आदिशब्दाद्व्यक्षेत्रकालभावा गृह्यन्ते, तदनुरूपं तदुचितमेवारभते सर्व 'अनुष्ठान' तपःप्रतिमाकल्पादि । यद्यस्मिन् संहननादौ निर्वोढुं शक्यते तदेवारभते, अधिकस्य निष्ठानयनाभावेन प्रतिज्ञाभङ्गसंभवाद् । कीटक पुनरारभते ?
१ ‘सुत्तेसु' इत्यपि।