________________
धर्मरत्न
प्रकरणम्
॥ ६७ ॥
4
बहुला' विशिष्टफलप्रापकं 'अल्पच्छेद' अल्पापकारम् । अल्पशब्दस्याभाववचनत्वात्संयमाषाधकमिति भावः । 'अवसारविशारदः' सिद्धान्ततत्त्वामिज्ञः 'सुयतिः ' भावसाधुः । इति गाथार्थः ।। ११५ ।।
कथं पुनरेवंविधं स्यात् ? इत्याह-
जह तं बहु पसाहइ निवडद्द अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाढवइ ॥ ११६ ॥
'यथा' येन प्रकारेण 'तत्' अधिकृतमनुष्ठानं ' बहु प्रसाधयति' पुनः पुनरासेवनेन निपतति वा 'असंयमे' सावद्यक्रियायां ' दृढं ' अत्यर्थ नैव ' यतः ' अनुष्ठानात् । किमुक्तं भवति - अनुचितानुष्ठानपीडितो न पुनस्तत्करणायोत्सहते, कदाचिद्रोगसंभवे च चिकित्सायामसंयमः, तदकरणे चाविधिमृतस्य संयमान्तरायः । अत एवोक्तम् - " सो हु तवो कायव्वो जेण मणो मंगुलं न चिते । जेण न इंदियहाणी जेण य जोगा न सीयंति ॥ १ ॥ " तथा 'जनितोद्यमं ' संपादितकरणमनोरथं 'बहूनां' अन्येषां समानधार्मिकाणां शक्यानुष्ठाने हि बहूनां चिकीर्षा संभवति, नेतरस्मिनिति । 'विशेषक्रियां' अधिकतरानुष्ठानं प्रतिमाभ्यासादिकम् । तथाशब्दः समुच्चये, स चैवं योज्यते - शक्तौ सत्यां विशेषक्रियां चारभते, न तां निष्फलां विदधाति । इति गाधार्थः । ११६ ॥
कथंभूतां पुनस्तां करोति १ इत्याह
गुरुगच्छुन्नइहे कयतित्थपभावणं निरासंसो । अज्जमहागिरिचरियं सुमरंतो कुणइ सक्किरियं ॥ ११७ ॥ गुरोर्गच्छस्य चोन्नतिरुत्सर्पणा, धन्योऽयं गुरुर्गच्छो वा यत्सानिध्यादेवंविधा दुष्करकारिणो दृश्यन्ते, इत्येवं जनश्लाघारूपा, तद्धेतुः तत्कारणम् । तथा 'कृततीर्थप्रभावनां' उत्पादित जिनशासनसाधुवादां, साधुः सुन्दरो जिनधर्मः सर्वधर्मेषु वयमप्येनमेव कुर्मः,
स्वोपज्ञवृत्तियुक्तम्
118011