SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न प्रकरणम् ॥ ६७ ॥ 4 बहुला' विशिष्टफलप्रापकं 'अल्पच्छेद' अल्पापकारम् । अल्पशब्दस्याभाववचनत्वात्संयमाषाधकमिति भावः । 'अवसारविशारदः' सिद्धान्ततत्त्वामिज्ञः 'सुयतिः ' भावसाधुः । इति गाथार्थः ।। ११५ ।। कथं पुनरेवंविधं स्यात् ? इत्याह- जह तं बहु पसाहइ निवडद्द अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाढवइ ॥ ११६ ॥ 'यथा' येन प्रकारेण 'तत्' अधिकृतमनुष्ठानं ' बहु प्रसाधयति' पुनः पुनरासेवनेन निपतति वा 'असंयमे' सावद्यक्रियायां ' दृढं ' अत्यर्थ नैव ' यतः ' अनुष्ठानात् । किमुक्तं भवति - अनुचितानुष्ठानपीडितो न पुनस्तत्करणायोत्सहते, कदाचिद्रोगसंभवे च चिकित्सायामसंयमः, तदकरणे चाविधिमृतस्य संयमान्तरायः । अत एवोक्तम् - " सो हु तवो कायव्वो जेण मणो मंगुलं न चिते । जेण न इंदियहाणी जेण य जोगा न सीयंति ॥ १ ॥ " तथा 'जनितोद्यमं ' संपादितकरणमनोरथं 'बहूनां' अन्येषां समानधार्मिकाणां शक्यानुष्ठाने हि बहूनां चिकीर्षा संभवति, नेतरस्मिनिति । 'विशेषक्रियां' अधिकतरानुष्ठानं प्रतिमाभ्यासादिकम् । तथाशब्दः समुच्चये, स चैवं योज्यते - शक्तौ सत्यां विशेषक्रियां चारभते, न तां निष्फलां विदधाति । इति गाधार्थः । ११६ ॥ कथंभूतां पुनस्तां करोति १ इत्याह गुरुगच्छुन्नइहे कयतित्थपभावणं निरासंसो । अज्जमहागिरिचरियं सुमरंतो कुणइ सक्किरियं ॥ ११७ ॥ गुरोर्गच्छस्य चोन्नतिरुत्सर्पणा, धन्योऽयं गुरुर्गच्छो वा यत्सानिध्यादेवंविधा दुष्करकारिणो दृश्यन्ते, इत्येवं जनश्लाघारूपा, तद्धेतुः तत्कारणम् । तथा 'कृततीर्थप्रभावनां' उत्पादित जिनशासनसाधुवादां, साधुः सुन्दरो जिनधर्मः सर्वधर्मेषु वयमप्येनमेव कुर्मः, स्वोपज्ञवृत्तियुक्तम् 118011
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy