Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धमेरनप्रकरणम्
स्वोपन|वृत्तियुक्तम्
॥७१ ॥
धिग् मां प्रमादशीलमिति भावनया प्रकृतो भावयतिः, कर्णस्थापितविस्मृतशुण्ठीखण्डापश्चिमदशपूर्वधरश्रीवैरस्वामिषत् । इति | गाथार्थः ॥ १२१॥
तथापालइ संपत्तगुणं गुणड्डसंगे पमोयमुव्वहइ । उज्जमइ भावसारं गुरुतरगुणरयणलाभत्थी ॥ १२ ॥
पालयति' रक्षति वर्द्धयति च जननीव मियपुत्रं संप्राप्तं सम्यकर्मक्षयोपशमोपलब्ध, गुणं झानचरणरूपम् । तथा गुणैरादयानां समृद्धानां सङ्गे मीलके चिरपोषितस्निग्धबन्धुसंप्रयोग इव 'प्रमोदं' आनन्दं 'उत् ' प्राचल्येन 'वहति' प्राप्नोति। तद्यथा-"असतां सङ्गपन यन्मनो मलिनीकृतम् । तन्मेऽद्य निर्मलीभूतं साधुसंबन्धवारिणा ॥१॥ पूर्वपुण्यतरोरध फलं प्राप्तं मयाऽमलम् । सानासङ्गचित्तानां साधूनां गुणधारिणाम् ॥ २॥" तथा गुणरागादेव 'उद्यच्छति' प्रयतते 'भावसारं' सद्भावसुन्दरं यथा भवति, ध्यानाध्ययनतपप्रभृतियतिकृत्येष्विति गम्यते । किम् ? इत्यत आह-गुरुतराणि क्षायिकभावभावित्वाचानि गुणरत्नानि क्षायिकज्ञानदर्शनचारित्राणि, तेषां यो लाभस्तदर्थी तदमिलापवान् । तथा हि-भवत्येवोधमवतामपूर्वकरणक्षपकश्रेणिक्रमेण केवलज्ञानादिसंप्राप्तिः, सुप्रतीतमिदम् । इति गाथार्थः ॥१२१ ॥
गुणानुरागस्यैव प्रकारान्तरेण लक्षणमाह| सयणोति व सोसोति व उवगारित्ति व गणिठवओ वत्ति। पडिबंधस्त न हेऊनियमा एयस्सगुणहीणो।१२३॥
स्वकीयो जनः 'स्वजनः।' इतिशब्दस्तद्भेदसूचकः । वाशब्दः समुच्चये । हस्वत्वं तु प्राकृतशैल्या। 'शिष्यः' विनेयः।।
।। ७१॥

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178