Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 141
________________ नेन प्रज्ञापनीयस्याप्यार्जवा देवालोचितप्रतिक्रान्तस्य शुद्धिर्भवतीत्यावेदितम् । तथा चागमः - " सोही उज्जुयभूयस्स धम्मो सुद्रस्स चि । निव्वाणं परमं जाइ घयसित्तेव पावए || १ | " ॥ १०९ ॥ इत्युक्तं भावसाधोस्तृतीयं लिङ्गम् । अथ चतुर्थ क्रियापरत्वमुच्यते तच्च प्रमादवतो न संभवतीति प्रमादपरिहारोपदेशमेव तावदाहसुगनिमित्तं चरणं तं पुण छक्कायसंजमो चेव । सो पालिडं न तीरइ बिगहाइपमा जुतेहिं ॥ ११० ॥ शोभना गतिः सुगतिः सिद्धिरेव तस्या निमित्तं कारणं 'चरणं' यतिधर्मः । तदुक्तम् - " नो अन्नहावि सिद्धी पाविज्ज‍ जं तओ इमीएवि । एसो चेव उवाओ आरम्भा वट्टमाणा उ ॥ १ ॥ " तथा " विरहिततरकाण्डा बाहुदण्डे : 'प्रचण्डं कथमपि जलराशि धीवरा लङ्घयन्ति । न तु कथमपि सिद्धिः साध्यते शीलहीनैर्दृढयत यतिवृत्ते चित्तमेवं विदित्वा ॥ १ ॥ " ' तत्पुनः ' चरणं 'पटूकायसंयम एव चकाराञ्च्चरित्रमोहनीय कर्मक्षयोपशमयेति सूचयति । सः ' पुनः संयमः ' पालयितुं ' वर्द्ध: यितुं ' ' न तीरइ' इति न शक्यते । विकथा विरुद्धकथा, आदिशब्दान्मद्यादिपरिग्रहः । उक्तं च- " मज्जं विसयकसाया निदा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पार्डेति संसारे ॥ १ ॥ " तत्र मद्यं साधूनामकल्पनीयमेव । यतोऽवाचि 44 सुरं वा मेरगं वावि अन्नं वा मज्जगं रसं । सरकखं न पिवे भिक्खू जसंसारक्खमप्पणो || १ ॥ " तथा विषयप्रमादोऽपि हेय एव । यतः सूत्रम् — “ विसएस मणुन्नेसुं पेमं नाभिनिवेसए । अणिश्चं तेसि विन्नाय परिणामं पोग्गलाण उ ॥ १ ॥ " एवं कपाप्रमादोऽपि न विधेयः । यत आर्षम् - " कोह माणं च मायं च लोभं च पाववगुणं । वमे चत्तारि दोसे उइच्छतो हियमप्पणो ॥ १ ॥” १' प्रचण्डः' इत्यपि । २ 'धीधना' इत्यपि । ३ 'ससक्यं' इत्यपि ॥ 466e6e616.

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178