________________
क्रियाद्वयं कर्तुमीशो भवति, क्रियाभेदे कर्तृभेदात् । ततो द्वितीयक्रियाक्षणे कर्तुरनित्यत्वाभावप्रसङ्गाभ्यां द्वयोरप्यपाकृतिरिति । तथा सकलगुणरत्नकुलगृहमित्यनेन भगवतः समस्तसुरासुरमनुजनायकेषु प्राधान्यमभ्यधायि । तेषां कस्यापि केनापि गुणेन विकलतया सकलशब्दप्रवृत्तेरयोगात् । तथा विमलकेवलमित्यनेन भगवतो ज्ञानातिशयसंपन्नतया तथ्यार्थवादित्वमुक्तम् । तदन्तरेण सूक्ष्मबादरमूर्त्तामूर्त्तादिभावानां याथातथ्येन वक्तुमशक्यत्वात् । तथा धर्मस्वार्थिभ्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्य लिङ्गमित्यवाचि । तथा चाहुवृद्धा: - " तत्थहिगारी अत्थी समत्थओ जो न सुत्तपडिकुट्ठो । अस्थी तु जो विणीओ समुवडिओ पुच्छमाणी य ॥१॥” जनानामित्यनेन बहुवचनान्तेनैतदुदितम् । नैकमेवेश्वरादिकमाश्रित्योपदेशदाने प्रवर्त्तितव्यमपि तु सामान्येन सर्वसाधारणतया जिनागमानुसारेण । स चायम् - " जहा पुन्नस्स कत्थई तहा तुच्छस कत्थई । जहा तुच्छास कत्थई तहा पुनस् कत्थई || १ || " वितराम्युपदेशमितीहैतदा कृतम् - न प्रज्ञागर्वेण, न पराभिभवेच्छया, नापि कस्यचिदुवार्जनाय प्रवर्त्तते । किं तर्हि ? कथं नु नामामी प्राणिनः सद्धर्ममार्गमासाद्य साद्यपर्यवसितं शिवशर्माऽवाप्स्यतीत्यनुग्रहबुद्धधा परेषामात्मनश्च । यतोऽभाणि पूर्वाचार्यैः – “शुद्धमार्गोपदेशेन यः सच्चानामनुग्रहम् । करोति नितरां तेन कृतः स्वस्याप्यसौ महान् ॥ १ ॥ " किं च-"न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ||२||" इत्युक्तः सभावार्थः पदार्थः । पदविग्रहस्तु समासादिकपदेषु प्रदर्शित एवेति न पृथगुच्यते । अथ चालना - ननु सकलगुगरनकुलगृहमित्युक्ते विमल केवलमित्यपार्थकम्, केवलज्ञानस्यापि गुणत्वात् सकलशब्दस्य च सर्वसङ्ग्रहार्थत्वादित्यत्रोच्यते - सर्वगुणेषु प्राधान्योपदर्शनार्थमस्य पृथगुपन्यासः सत्यस्मिन्नवश्यं परमपदप्राप्तेर्दृश्यते चायं न्यायो लोकेऽपि यथा - 'ब्राह्मणा आयाताः वशिष्ठोऽप्यायातः' इत्यादौ ।