SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ धर्मरव प्रकरणम् ॥ २ ॥ इति स्थार्थः ॥ १ ॥ अथ यथाप्रतिज्ञातं विभपिपुः प्रस्तावनामाह--- भवजलहिम्मि अपारे दुलहं मणुयन्तर्णपि जंसूर्ण । तत्थवि अणस्थहरणं दुलहं सम्वररयणं ॥ २ ॥ 44 भवन्त्यस्मिन्नारकतिर्यङनरामररूपेण प्राणिन इति भवः संसारः, स एव जन्मजरामरणजलधारणाअलधिः, तस्मिन्ननादिनिधनतया अपारे पर्यन्तविक बम्भ्रम्यमाणानामिति शेषः । ' दुर्लभं दुरापं ' मनुजत्वमपि ' मनुष्यभावोऽपि दूरे तावद्देशकुलारोग्यादिसामग्रीत्यपेरर्थः । यतोऽवाचि भगवता श्रीवर्द्धमानस्वामिनाऽष्टापदादागतं गौतममहामुनिं प्रति - " दुलहे खलु माणुसे भवे चिरकालेवि सव्वपाणिणं । गाढा य विवामकम्मुणो समयं गोयम ! मा पमायए ||" ' जन्तूनां' प्राणिनां ' तस्मिन् ' मनुजस्वे सत्यपि 'अनर्थहरणम्' इति नार्थ्यन्ते न काम्यन्ते ये दारिद्रचक्षुद्रोपद्रवादयोऽपायास्ते हियन्ते येन तदनर्थहरणम् । 'दुर्लभ' दुरापै वर्त्तते किं तत् ? इत्याह-संश्चासौ धर्मश्व सद्धर्मः सम्यग्दर्शनादिरूपः । स एष वरं प्रधानं रवमिवाशेषापायनाशित्वात्तदिति । उक्तं च- " मानुष्यकर्मभूम्यार्यदेशकुलकरूपतायुरुपलब्धौ । श्रद्धा कथक श्रवणेषु सत्स्वपि सुदुर्लमा बोधिः १ ।” इति गाथार्थः ॥12॥ अमुमेवार्थ दृष्टान्तविशिष्टं स्पष्टतरमाह जह चिंतामणिरयणं सुलहं न हु होइ तुच्छविहवाणं । गुणविभववज्जियाणं जियाणं तह धम्मरयणंपि ॥ ३ ॥ १ 'सुदुर्लभो' इत्यषि । खोपज्ञवृत्तियुक्तम् ॥२॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy