________________
धर्मरन
प्रकरण
॥१॥
CONOCREC
प्रकरणार्थपरिज्ञानमिति । प्रयोजन पुनः द्विविधम् , कर्तुः श्रोतुय । पुनरनन्तस्परम्परभेडादेकै द्विधा । तत्रानन्तरं कर्चः सचानुग्रहः, श्रोतुः प्रकरणार्थपरिज्ञानम् । परम्परमुभयोरप्यपवर्गप्राप्तिरिति । सांप्रतं व्याख्या विधीयते । तत्र चाय विधिः-संहिता |च पदं चैत्र पदार्थ पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तत्वस्य षड्विधा ॥१॥” तत्रास्खलितादिगुणोपेतसूत्रोच्चारण संहिता, | सा च व्यक्तैव । पदानि संस्कृतभाषया । नत्वा सकलगुणरत्नकुलगृहं विमलकेवलं वीरं धर्मरत्नार्थिनां जनानां वितरामि उपदेशमिति । पदार्थस्तु 'नत्वा' प्रणम्य सकलानि समस्तानि यानि रत्नानि तेषां कुलगृहमुत्पत्तिस्थानम् । यो भगवान् वीरस्तम् । इह यद्यपि गुणा वस्तुधर्माः शुभाशुभस्वरूपा अप्यभिधीयन्ते; तथापि शुभा एव प्रत्येतव्याः; इतरेषां रत्नत्वानुपपत्तेः । तथा हि"जाती जातौ यदुत्कृष्टं रनं निगद्यते हि तत् । इत्येवं सुधियः प्राहुनि विसंवादमुत्तमाः ॥१।" विमलं ज्ञानावारककर्माणुसंपर्कविकलम् , केवलं केवलज्ञानं यस्य तम् । कर्मविदारणात्तपसा विराजनार्यवीर्ययुक्तत्वाच्च जगति यो वीर इति ख्यातस्तम् । यतोऽवाचि-"विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१॥" तथा दुर्गतौ पततः प्राणिनो धारयतीति धर्मः । उक्तं च-"पततो दुर्गतौ यस्मात्सम्यगाचरितो भवात् । प्राणिनो धारयत्येष तस्माद्धर्म इति | स्मृतः ॥१॥" स एवाशेषानर्थविघातहेतुत्वात् कल्याणकलापकरणत्वाच्च रत्नम् , तदर्थयन्ति मृगयन्ते ये ते धर्मरनार्थिनस्तेभ्यः 'जनभ्यः' लोकेभ्यो 'वितरामि प्रयच्छामि । उपदिश्यत इत्युपदेशो हितप्रवृत्तिहेतुवचनप्रपश्चस्तमिति । वीरै वर्तमानतीर्थाधिनाथ नत्वा धर्मार्थिजनेभ्य उपदेशं वितरामीति पदघटना । भावार्थः पुनरयम्-नत्वेति पूर्वकालाभिधायिनाऽऽक्षिप्तोत्तरकालक्रियेण
61१॥ स्याद्वादशार्दूलनादसंवादिना पदेनैकान्तनित्यक्षणिकवस्तुवादिमृगयोर्मुखबन्धो व्यधायि । तस्मान्नैकान्तनित्यः क्षणिको वा कर्चा
*IOSASAROSASSAMACHAR
R UCICROSA-*