Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 136
________________ धर्मरत्नप्रकरणम् ॥ ६२ ॥ 56 +56 +9 रूपं रूपयन्ति यथा सूत्रे भणितं तथैव विविदिषूणामुपदिशन्ति । अयमत्राभिप्रायः - इह हि धार्मिकंमन्यान् कांचन घृतादिभिनिस्निपनं दूषयतः केवलेन गन्धोदकेन कुर्वतः कारयतश्चोपलभ्य मध्यस्थधार्मिकाः किमत्र युक्तम् ? इति गुरून् पृच्छन्ति । ततस्तेषां संविग्नगीतार्थगुखो व्यागृणन्ति । तद्यथा - वर्तमानमूलागमेषु द्रव्यंस्तवः श्रावकाणामुपदिष्टो, न पुनस्तत्करणविधिरतः स पूर्वगतादौ संभाव्यते । पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतमवचनोन्नतिहेतुग्रशम रतितन्वार्थाधनेक महाशास्त्रेण - “ जिनभ वन जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुखफलानि करपल्लवस्थानि ॥ १ ॥ इत्यादिद्रव्यस्तवाभिधायिप्रकरणे पूजाविधिरेवमुक्तः “ सर्पिर्दुग्धदधिमबुद्धकुसुमैर्भूपाम्बुदीपस्तथा गन्धस्नात्रसुगन्धिचन्दनरसैः प्रत्युग्रसत्कुडुमैः । पूजां निर्जितविद्धपोऽमलधियः कुर्वन्ति ये भावतो भुक्त्वा सोख्यमिहामरं च सततं ते यान्ति शीघ्रं शिवम् ॥ १ ॥ गव्यहव्यदधिदुग्धपूरितैः स्नापयन्ति कलशैरनुत्तमैः । ये जिनोक्तविधिना जिनोत्तमान् स्वर्विमानविभवो भवन्ति ते ॥ २ ॥ ” तेनापि संविग्नशिरोमणिना सिद्धान्तायमर्थो नोक्त इति संभाव्यते । अत एव गोविन्दाचार्येण सनत्कुमारसन्धिषु तथैव वर्णितः । पर्वकारेण धूपा(मा) वलिकाकारेण चानृदितः । प्रामाणिक सैद्धान्तिक मस्तकरत्नेन श्रीजिनेश्वराचार्येण कथानककोशशास्त्रे विशेषण स्थापितः, तच्छियेणाभयदेवसूरिणापि पञ्चाशकवृत्ती – देवैरपि सन्निहिते कालोदपुष्करवरसागरनीरे सत्यपि घृतक्षीरेक्षुरसवार्यानयद्भिरनादिरूढता घृतादिस्नानस्य स्थापिता चेति । तस्मान्मूर्खमुखरदूषितमपि घृतादिस्नानं युक्तमिति लक्ष्यामः । तथाऽधिवासनोदकानयनछत्ररथभ्रमणदिक्पालस्थापनादीनामपि प्रभावनाविशेषहेतुत्वेन पूर्वपुरुषाचरितानां निषेधञ्छयस्थैर्न कर्त्तव्यः काप्यागमे निषेधादर्शनात् । नापीन्द्रादिभिर्न कृतान्येतानीति ज्ञापकं प्रमाणं देवमनुष्याणामा वारस्यासमानत्वात् । देवा हि प्रथमोत्पन्ना एवं चैत्यपूजादि स्वोपज्ञवृचियुक्तम् ॥ ६२ ॥

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178