________________
धर्मरत्नप्रकरणम्
॥ ६२ ॥
56 +56 +9
रूपं रूपयन्ति यथा सूत्रे भणितं तथैव विविदिषूणामुपदिशन्ति । अयमत्राभिप्रायः - इह हि धार्मिकंमन्यान् कांचन घृतादिभिनिस्निपनं दूषयतः केवलेन गन्धोदकेन कुर्वतः कारयतश्चोपलभ्य मध्यस्थधार्मिकाः किमत्र युक्तम् ? इति गुरून् पृच्छन्ति । ततस्तेषां संविग्नगीतार्थगुखो व्यागृणन्ति । तद्यथा - वर्तमानमूलागमेषु द्रव्यंस्तवः श्रावकाणामुपदिष्टो, न पुनस्तत्करणविधिरतः स पूर्वगतादौ संभाव्यते । पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतमवचनोन्नतिहेतुग्रशम रतितन्वार्थाधनेक महाशास्त्रेण - “ जिनभ वन जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुखफलानि करपल्लवस्थानि ॥ १ ॥ इत्यादिद्रव्यस्तवाभिधायिप्रकरणे पूजाविधिरेवमुक्तः “ सर्पिर्दुग्धदधिमबुद्धकुसुमैर्भूपाम्बुदीपस्तथा गन्धस्नात्रसुगन्धिचन्दनरसैः प्रत्युग्रसत्कुडुमैः । पूजां निर्जितविद्धपोऽमलधियः कुर्वन्ति ये भावतो भुक्त्वा सोख्यमिहामरं च सततं ते यान्ति शीघ्रं शिवम् ॥ १ ॥ गव्यहव्यदधिदुग्धपूरितैः स्नापयन्ति कलशैरनुत्तमैः । ये जिनोक्तविधिना जिनोत्तमान् स्वर्विमानविभवो भवन्ति ते ॥ २ ॥ ” तेनापि संविग्नशिरोमणिना सिद्धान्तायमर्थो नोक्त इति संभाव्यते । अत एव गोविन्दाचार्येण सनत्कुमारसन्धिषु तथैव वर्णितः । पर्वकारेण धूपा(मा) वलिकाकारेण चानृदितः । प्रामाणिक सैद्धान्तिक मस्तकरत्नेन श्रीजिनेश्वराचार्येण कथानककोशशास्त्रे विशेषण स्थापितः, तच्छियेणाभयदेवसूरिणापि पञ्चाशकवृत्ती – देवैरपि सन्निहिते कालोदपुष्करवरसागरनीरे सत्यपि घृतक्षीरेक्षुरसवार्यानयद्भिरनादिरूढता घृतादिस्नानस्य स्थापिता चेति । तस्मान्मूर्खमुखरदूषितमपि घृतादिस्नानं युक्तमिति लक्ष्यामः । तथाऽधिवासनोदकानयनछत्ररथभ्रमणदिक्पालस्थापनादीनामपि प्रभावनाविशेषहेतुत्वेन पूर्वपुरुषाचरितानां निषेधञ्छयस्थैर्न कर्त्तव्यः काप्यागमे निषेधादर्शनात् । नापीन्द्रादिभिर्न कृतान्येतानीति ज्ञापकं प्रमाणं देवमनुष्याणामा वारस्यासमानत्वात् । देवा हि प्रथमोत्पन्ना एवं चैत्यपूजादि
स्वोपज्ञवृचियुक्तम्
॥ ६२ ॥