________________
KHARAT
कुर्वन्ति । मनुजास्तु यावजी त्रिकालभपि । देवाः सकदेककल्याणके पूजां कुर्वन्ति, न तु तपःकर्म । मनुजास्तु प्रतिवर्ष तपःक्रिया&ा पूर्वकं सर्वतीर्थकृतां सर्वकल्याणकेषु पूजां विदधतीत्यादि । तस्मान्मनुजानां मनुजव्यवहारः श्रेयान् । अन्यच्च जिनमहिम्नः प्रवर्द्ध| नमेव साधु, न विघ्नकरणम् । यत उक्तम्-" पाणवहाई (नि) सुओ जिणपूयामोक्खमग्गविग्घकरो । अज्जेइ अन्तरायं न लहइ
जेणिच्छिय लाभं ॥१॥" अत एव जिनत्रयचतुर्विशतिपादिकारणमपि गीतार्था न दषयन्ति, बहुबिम्बान्तरायभीरुत्वादागमेऽ| निषेधदर्शनाच्च । केवलं मौनमालम्बन्ते । यतोऽयं गुरूपदेश:-"जं बहखाई पत्तं नवि दीसइ कहवि भासियं सुत्ते । न य पडिसेहो दीसइ-मोणं चिय तत्थ गीयाणं ॥१॥" तथा-"सुत्तभणियंमि सुतं पमाणमियरंमि होइ आयरणा। संविग्गगीयबहुजणनिसेविया सावि हु पमाणं ।। २॥" किं च हरिभद्रसरिणाऽपि त्रिधा प्रतिष्टोक्ता। यतोऽवाचि-" व्यक्ताख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थक्रयदा किल तस्य तदाद्येति समयविदः ॥ १॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महापतिष्ठेति ।। २॥"नच पृथग्विम्बानामियमिति वक्तुमुचितं, दृष्टकल्पनावशात् । न हि प्रेक्षापूर्वकारिणो दृष्टं विहायाऽदृष्टं परिकल्पयन्ति । इत्यादिशुद्धश्रद्धावान श्रुतानुसारेण प्ररूपयति । इति गाथाथः ॥ १०३ ।।
उक्तं तृतीयं श्रद्धालक्षणम् । अथ चतुर्थमाहअइयारमलकलंक पमायमाईहिं कहवि चरणस्स । जणियपि वियडणाए सोहिति मुणी विमलसद्धा॥१०॥
अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः, स एव गुणमालिन्यहेतुत्वान्मलम् , तच्चरणशशधरस्य कलङ्कः इव तं, 'प्रमादादिभिः' प्रमाददर्पकल्पेराकुडिकायावारित्रिणः प्रायेणासंभवान, कथमपि कण्टकाकुलमार्गे यत्नेनापि गच्छतः कष्टकमङ्गवत् ,