________________
हिमाइलो | समीलो य ससल्लो तिरिआउं बंधत् जीवो || ३ || उम्मम्गदेमणार चरणं नार्सिति जिणवरिंदाणं । वावन्नदंसणा खलु न द्दु लब्भा तारिसा दुहुं ॥ ४ ॥ " इत्याद्यागमवचनानि श्रुत्वाऽपि स्वाग्रह ग्रहग्रस्तचेतसो यदन्यथान्यथा व्याचक्षते विदधति च तन्मदा साहसमे वानव क्यारासारसंसारापारपारावारोदरविवरभाविभूरिदुःखभाराङ्गीकारात् । इति गाथाभावार्थः ॥ १०१ ॥ आह किमेवमागमार्थमवबुध्यापि कोऽप्यन्यथावादमाद्रियते ? येनैवमुच्यते, सत्यम्, आद्रियते । यत आहदीसंति य ढड्डूसिणोणेगे नियमइपउचजुत्तोहिं । विहिपडिसेहपवत्ता चेइयकिच्चे रूढे ॥ १०२ ॥
दृश्यन्ते दुप्पमारूपे च वक्रजडबहुले काले ' ददसिणः ' महासाहसिका रौद्रादपि भवपिशाचादविभ्यतः 'अनेके' विविधा निजमतिप्रयुक्ताभिरात्मीयबुद्धिव्यापारिताभिर्युक्तिभिरुपपत्तिभिः ' विधिप्रतिषेधप्रवृत्ताः ' इति कासांचित्क्रियाणामागमानुक्तानामपि विधी करणे प्रवृत्ताः, अन्यासमागमानिषिद्धतया चिरत्नजनाचरितानामप्यविधिरयुक्ता एता न कर्त्तव्या धार्मिकैरित्येवं प्रतिषेधे प्रवृत्ताः । केषु ? ' चैत्यकृत्येषु' स्नात्रविम्व कारणादिषु ' रूढेषु' पूर्वपुरुषपरम्परया प्रसिद्धेषु । पूर्वरूढिरविधिः इदानीं तनप्रवृत्तिविधिः, इत्येवं वादिनोऽनेके दृश्यन्ते साहसिकाः । इति गाथार्थः ।। १०२ ।।
ननु ते धर्मार्थिनः सर्वयत्नेन तथाप्रवृत्ता गीतार्थैः श्लाघनीया न वा ? इत्याह
तं पुणविद्धसद्धा सुसंवायं विणा न संसंति । अवहोरिऊण नवरं सुयाणुरुवं परूविति ॥ १०३ ॥
'तां पुनः ' तेषां प्रवृति विशुद्धागमबहुमानसारा श्रद्धा येषां ते तथाविधाः 'श्रुतसंवादं विना ' श्रुतभणितमन्तरेण 'न शंसन्ति ' नानुमन्यन्ते, किं तर्हि ? बालक्रीडितमेतदिति बुद्धया ' अवधीर्य' मध्यस्थभावेनोपेक्ष्य ('नवरे' केवल ) 'श्रुतानु