Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri, 
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 122
________________ धर्मरनप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥५५॥ पाक्षिकमपि गृह्यते, तेषां तिथिपरावर्त्तस्तिथ्यन्तरकरणं. सुप्रतीतमेतत् । तथा 'भोजनविधेरन्यत्वं' यतीनां प्रतीतम् । अन्येषां तुन व्याख्येयमेव, गुप्तस्यैवागमे तस्य विधानात् । आह च-" छकायदयावंतोपि संजओ दुल्लई कुणइ बोहिं । आहारे नीहारे दुगंच्छिए पिंडगहणे य ॥१॥" 'एमाई' इति प्राकृतशैल्या, एवंशब्दषकारलोपात् । एवमादिग्रहणेन मन्दमेधसः पुरुषान् वाचनया ग्रहणधारणाऽसमर्थानवयुद्धथ पट्टिकापठनप्रवृत्तिः, किचित संयमविरोधेऽपि सिद्धान्तस्य पुस्तकेयारोपणम् , कवलिकादिधारणं च प्रवचनाव्यवच्छिसये गीतार्थप्रणीतं गृह्यते । विविधमन्यदयाचरित प्रमाणभूतमस्तीति । तथा च व्यवहारभाष्यम्-" सत्थपरिना छकायसंजमों पिंडउत्तरज्झाये । सखे यसहे गोवे जोहे सोही य पुस्खरिणी ॥१॥ अयमर्थः-शखपरिक्षाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुस्थापनीयः, इत्यागममुद्रा । जीतं पुनः षट्कायसंयमे दशवैकालिकपडूजीपनिकाध्ययने ज्ञाते भिक्षुरुत्थाप्यते । तथा पिण्डेषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, संपति तान्यधीत्याचार उद्दिश्यते । पूर्व कल्पवृक्षा लोकस्य शरीरस्थितिहेतवोऽभूवन् , इदानी सहकारकरीरादिभिर्व्यवहारः । तथा वृषभाः पूर्वमतुलपला धवलपमा बभूवुः, संप्रति धूसरेरपि लोको व्यवहरति । तथा गोपाः कर्षकाश्चक्रवर्तिगृहपतिरत्नवत्तहिन एव धान्यनिष्पादका पभूषुः, संप्रति तागभाषेपीतरकर्षकैलोंको निर्वहति । तथा पूर्व योधाः सहस्त्रयोधादयोऽभूवन , संपत्यल्पवलपराक्रमरपि राजानः शत्रनामम्य राज्यमनुपालयन्ति । तद्वत्साधवोऽपि जीतव्यवहारेणापि संयममाराधयन्ति, इत्युपनयः । तथा शोधिः प्रायश्चित्तं पाण्मासिकायामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितेति । पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति दान्तिकयोजना पूर्ववत् । एवमनेकधा जीतमुपलभ्यते । इति गाथार्थः ॥ ८३॥ *5555555494545* ॥ ५५॥

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178