________________
धर्मरनप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥५५॥
पाक्षिकमपि गृह्यते, तेषां तिथिपरावर्त्तस्तिथ्यन्तरकरणं. सुप्रतीतमेतत् । तथा 'भोजनविधेरन्यत्वं' यतीनां प्रतीतम् । अन्येषां तुन व्याख्येयमेव, गुप्तस्यैवागमे तस्य विधानात् । आह च-" छकायदयावंतोपि संजओ दुल्लई कुणइ बोहिं । आहारे नीहारे दुगंच्छिए पिंडगहणे य ॥१॥" 'एमाई' इति प्राकृतशैल्या, एवंशब्दषकारलोपात् । एवमादिग्रहणेन मन्दमेधसः पुरुषान् वाचनया ग्रहणधारणाऽसमर्थानवयुद्धथ पट्टिकापठनप्रवृत्तिः, किचित संयमविरोधेऽपि सिद्धान्तस्य पुस्तकेयारोपणम् , कवलिकादिधारणं च प्रवचनाव्यवच्छिसये गीतार्थप्रणीतं गृह्यते । विविधमन्यदयाचरित प्रमाणभूतमस्तीति । तथा च व्यवहारभाष्यम्-" सत्थपरिना छकायसंजमों पिंडउत्तरज्झाये । सखे यसहे गोवे जोहे सोही य पुस्खरिणी ॥१॥ अयमर्थः-शखपरिक्षाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुस्थापनीयः, इत्यागममुद्रा । जीतं पुनः षट्कायसंयमे दशवैकालिकपडूजीपनिकाध्ययने ज्ञाते भिक्षुरुत्थाप्यते । तथा पिण्डेषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, संपति तान्यधीत्याचार उद्दिश्यते । पूर्व कल्पवृक्षा लोकस्य शरीरस्थितिहेतवोऽभूवन् , इदानी सहकारकरीरादिभिर्व्यवहारः । तथा वृषभाः पूर्वमतुलपला धवलपमा बभूवुः, संप्रति धूसरेरपि लोको व्यवहरति । तथा गोपाः कर्षकाश्चक्रवर्तिगृहपतिरत्नवत्तहिन एव धान्यनिष्पादका पभूषुः, संप्रति तागभाषेपीतरकर्षकैलोंको निर्वहति । तथा पूर्व योधाः सहस्त्रयोधादयोऽभूवन , संपत्यल्पवलपराक्रमरपि राजानः शत्रनामम्य राज्यमनुपालयन्ति । तद्वत्साधवोऽपि जीतव्यवहारेणापि संयममाराधयन्ति, इत्युपनयः । तथा शोधिः प्रायश्चित्तं पाण्मासिकायामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितेति । पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति दान्तिकयोजना पूर्ववत् । एवमनेकधा जीतमुपलभ्यते । इति गाथार्थः ॥ ८३॥
*5555555494545*
॥ ५५॥