________________
'अन्यथा' प्रकारान्तरेण 'भणिसम्' उक्तमपि 'ते' पारगतागमे 'किञ्चिद वस्तु 'कालादिकारणापेक्षं' दुष्षमादिस्वरूपालोचनपूर्वकं 'आचीर्ण' व्यवहृतमन्यथैव, चियशब्दस्यावधारणार्थत्वात् । 'दृश्यते ' साक्षादुपलभ्यते 'संविग्नगीताथैः' उक्तस्वरूपैः । इति गाथार्थः॥ ८१॥
किं तद् ? इत्याहकप्पाणं पाउरणं अग्गोयरचाय झोलियाभिक्खा। ओवगहियकडाहयतुंबयमुहदाणदोराई ।। ८२॥ ___ 'कल्पानां' आगमप्रतीतानां 'प्रावरणं' परितो वेष्टनं प्रतीतमेव । ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृत्ताः स्कन्धगता एव बोदव्या इत्यागमाचारः। संपति प्राप्रियन्ते--'अग्गोयर' इति अग्रावतारः परिधानविशेषः साधुजनप्रतीसस्तस्य त्यागः कटीपट्टकस्यान्यथाकरणम् । तथा 'झोलिका 'बाइलम्बमानपात्रबन्धपात्रकरणरूपा, तया 'मिक्षा' सा हि किल बाहपरिधृतभाजनैर्विधेयेत्यागमः । तथा औषग्रहिककटाहकतुम्बकमुखदानदवरकादयोऽपि मुविदिता एवं साधूनामाचरिताः संग्रतीति गम्यते । इति गाथार्थः ।। ८२ ॥
तथासिक्किगनिक्खिवणाई पजोसवणाइतिहिपरावत्तो । भोयणविहिअन्नतं एमाई विविहमन्नपि ॥ ८३ ॥
सिक्किको दवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बन्धनमर्थात् पात्राणाम् , आदि शब्दात् पटलकपात्रकेसरिकादिधारणम् , युक्तिलेपेन पात्रलेपनम् । तथा 'पर्युषणादितिधिपरावर्तः ' पर्युषणासांवत्सरिकम् , आदिशन्दाश्चतुर्मासकम् , केषांचिन्मतेन