________________
धर्मरत्नप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ ५४॥
COACHCRACK
गयं जं तं चेव बुहेण होइ कायव्वं । किमिह बहुणा जणेणं हंदि ण सेयस्थिणो बहुया ॥२॥" तथा-"जेडमि विजमाणे उचिए अणुजेट्टपूयणमजुत्तं । लोयाहरणपि तहा पयडे भयवंतवयवर्णमि ॥१॥" आगमस्तु केवलिनाऽपि नाप्रमाणीक्रियते । यतः-“ओहो सुओवउत्तो सुयनाणी जइवि गिण्हइ असुद्धं । तं केवलीवि भुंजइ अपमाणसुयं भवे इहरा ॥१॥" आगमे सत्यप्याचरितस्य प्रमाणीकरणे तस्य लघुता स्फुटैवेति, नैतदेवम् , अस्य सूत्रस्य शास्त्रान्तराणां च विषयविभागापरिज्ञानात् । तथा हि-रह सूत्रे संविनगीतार्था आगमनिरपेक्षं नाचरन्ति । कि तर्हि ?-" दोसा जेण निरुभंति जेण खिज्जंति पुन्वकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥१॥" इत्याद्यागमं स्मरन्तो द्रव्यक्षेत्रकालभावपुरुषाद्यौचित्यमालोच्य संयमवृद्धिकार्येव किञ्चिदाचरन्ति, तच्चान्येऽपि संविग्नगीतार्थाः प्रमाणयन्तीति स मार्गोऽभिधीयते । भवदुच्चारितशास्त्रान्तराणि पुनरसंविग्नागीतार्थलोकमसमञ्जसप्रवृत्तिमाश्रित्य प्रवृत्तानि, ततः कथं तैः सह विरोधसंभवः ? तथाऽऽगमस्यापि नाप्रमाणतापत्तिः, अपि तु सुष्ठुतरं प्रतिष्ठा, यस्मादागमोऽप्यागमश्रुताज्ञाधारणाजीतभेदात् पञ्चधा व्यवहारः प्ररूप्यते । यत उक्तं स्थानाङ्गे–“पंचविहे वपहारे पन्नत्ते । तंजहाआगमववहारे १, सुयववहारे २, आणाववहारे ३, धारणाक्वहारे ४, जीयववहारे ५॥" जीताचरितयोश्वानर्थान्तरत्वादाचरितस्य प्रमाणत्वे सुतरामागमस्य प्रतिष्ठासिद्धिः । ये पुनर्मोहान्धा गीतार्थाचरितं मार्गमितरजनाचरितानि निदर्शनीकृत्य निर्लोठयन्ति ते वराका वयमागमरुचयः, इति मृषैवोद्घोषयन्ति । यत उक्तम्-"मूढा अणाइमोहा तब्भत्तामोत्ति तं कयत्थंता। तं चेव उ मन्त्रंता अवमन्नंता न याति ॥१॥" तस्मादागमाविरुद्धमाचरितं प्रमाणमिति स्थितम् ॥ अन्नह भणियंपि सुए किंचि कालाइकारणावेक्खं । आइन्नमन्नह च्चिय दोसइ संविग्गगीएहिं ॥ ८१ ॥
P
॥ ५४॥