________________
%
गाथाद्वयसमासार्थः ॥ ७९ ॥
व्यासार्थस्तु सूत्रकारः स्वयमेवाह
गो आगमनी अहवा संविग्गबहुजणाइन्नं । उभयानुसारिणी जा सा मग्गणुसारिणी किरिया ॥ ८० ॥ मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स 'मार्गः ' । स च द्रव्यभावभेदाद्वेधा । द्रव्यमार्गों ग्रामादेः । भावमार्गों मुक्तिपुरस्य । सम्यग्ज्ञान (दर्शन) चारित्ररूपः, क्षायोपशमिकभावरूपो वा तेनेहाधिकारः । स पुनः कारणे कार्योपचारात् ' आगमनीतिः ' सिद्धान्तभणिताचारः । अथवा संविग्नबहुजनाचीर्णमिति द्विरूपोऽवगन्तव्य इति । तत्रागमो वीतरागवचनम् । उक्तं च- “ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसंभवात् ॥१॥ तस्य नीतिरुत्सर्गापवादरूपः, शुद्धसंयमोपायः स मार्गः । उक्तं च - " यस्मात्प्रवर्त्तकं भुवि निवर्त्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ १ ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वत्तो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात सर्वार्थसंसिद्धिः ॥ २॥ " तथा संविना मोक्षाभिलाषिणो ये बहवो ननाः, अर्थाद्गीतार्थाः, इतरेषां संवेगायोगात्, तैर्यदाचोर्णमनुष्ठितं क्रियारूपम् । इह च संविग्रग्रहणमसंविद्यानां बहूनामप्यममागतां दर्शयति । बहुजनग्रहणं संविग्नोऽप्येकोऽनाभोगाऽनवबोधादिभिर्वितथमप्याचरेत् । ततः सोऽपि न प्रमाणमित्यतः संविग्रबहुजनाचरितं मार्गः । इत्यत एवाह - ' उभयानुसारिणी ' या आगमाबाधया संविद्मव्यवहाररूपा सा मार्गानुसारिणी क्रिया । इति गाथार्थः ॥ ८० ॥
आह आगम एव मार्गों वक्तुं युक्तः । बहुजनाचीर्णस्य पुनर्मार्गीकरणमयुक्तं, शास्त्रान्तरविरोधात्, आगमस्य चाप्रमाणतापत्तेः । तथा हि - " बहुजणप वित्तिमेत्तं इच्छंतेहिं इह लोइओ चैव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती ॥ १ ॥ ता आणाणु