________________
धर्मरनप्रकरणम्
स्वोपक्ष| वृत्तियुक्तम्
॥ ५३॥
___'इति' उक्तप्रकारेण सप्तदशगुणयुक्तो जिनागमे भावश्रावको भणित इति प्रकटार्थम् । 'एषः' एवंविधः 'पुनः' शब्दो विशेषणार्थः । किं विशिनष्टि ? न्यसाधुस्तावदेष भणित एवागमे । यदुक्तम्-"मिउपिंडो दव्वघडो सुसावओ तह यदवसाहुत्ति। साहू य दव्वदेवो सुद्धनयाणं तु सव्वेसि ॥१॥" एवंविधः परिणामोपार्जितकुशलयोगात्पुनः 'लभते ' अवामोति 'लघु' शीघ्र 'भावसाधुत्वं' यथाऽवस्थितयतित्वम् । इति गाथार्थः ॥ ७७॥
कीदृशः पुनर्भावसाधुर्भवतीत्युच्यते-“निर्वाणसाधकानू योगान् यस्मात् साधयतेनिशम् । समश्च सर्वभूतेषु तस्मात्साधुरुदाहृतः॥१॥क्षान्त्यादिगुणसंपन्नो मैत्र्यादिगुणभूषितः । अप्रमादी सदाचारे भावसाधुः प्रकीर्तितः ॥२॥" स कथं छबस्थैः प्रत्यभिज्ञायते ? लि। कानि पुनस्तानि ? इत्याहएयस्स उ लिंगाई सयला मग्गाणुसारिणो किरियो । सद्धा पवरा धम्मे पन्नवणिजत्तमुजुभावां ॥७८ ॥ किरियासु अप्पाओ आरंभो सक्कणिज्जहाणे । गुरुओ गुणाणु ओ गुरुआणाराहणं परमं ॥ ७९ ॥
द्वारगाथाद्वयम् । अस्य व्याख्या-'एतस्य' पुनर्भावसाधोः 'लिङ्गानि' चिहानि 'सकला' समस्ता ‘मार्गानुसारिणी' मोक्षाध्वानुपातिनी 'क्रिया' चेष्टा प्रत्युपेक्षणादिका १ । तथा 'श्रद्धा' वाञ्छा 'प्रवरा' प्रधाना 'धर्मे' संयमविषये २ । तथा 'प्रज्ञापनीयत्वं ' सद्बोधलम्पटत्वं 'ऋजुभावात्' अकौटिल्येन ३॥७८ ॥ तथा 'क्रियासु' विहितानुष्ठानेषु 'अप्रमादः' अशेथिल्यम् ४ । तथा 'आरम्भः' प्रवृत्तिः ' शकनीये 'शक्त्यनुरूपे 'अनुष्ठाने ' तपश्चरणादौ ५। तथा 'गुरुः' महान् 'गुणानुरागः' गुणपक्षपातः ६। तथा 'गुर्वाज्ञाराधनं' आचार्यादेशवर्तित्वं 'परमं' सर्वगुणप्रधानम् ७ । इति सप्त लक्षणानि भावसाधोः । इति
॥५३॥