SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अथवा किंबहुना - सव्वा न सुत्ने पडिसिद्धं नेय जीववहहेऊ । तं सव्वंपि पमाणं चरितघणाण भणियं च ॥ ८४ ॥ 'यद्' 'वस्तु' सर्वथा 'सकलप्रकारै: नैव 'सूत्रे ' सिद्धान्ते 'प्रतिषिद्धं ' निवारितं मैथुनसङ्गवत् । उक्तं च- " न य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तु मेहुणभावं न तं विणा रागदोसेहिं ॥ १ ॥ " नापि ' जीववधहेतुः' आधाकर्मग्रहणवत् । ' तद्' जीतानुष्ठानं सर्वमपि प्रमाणम् । चारित्रमेव धनं येषां तेषां ( ' चारित्रधनानां ' ) चारित्रिणामागमानुज्ञातत्वात् भणितं ' उक्तं चागमे । इति गाथार्थः ॥ ८४ ॥ यद्भणितं तवाह अवलंबिण कर्ज जं किंपि समायरंति गीयत्था । थेवावराह बहुगुण सव्वेसिं तं पमाणं तु ॥ ८५ ॥ ' अवलम्ब्य ' आश्रित्य ' कार्य ' संयमोपकारि यत्किमपि ' आचरन्ति' आसेवन्ते 'गीतार्थाः ' विदितागमतत्त्वाः । 'स्तोकापराध' अल्पदोष, 'बहुगुणं' बहूनामुपकारकारि, सर्वेषामपि चारित्रिणां तत्प्रमाणमेव । तुशब्दस्यावधारणार्थत्वात् । इत्यागमगाथा ।। ८५ ।। अत्र कश्चित्कुटिल एवमाह - नन्वेवमाचरिते युष्माभिः प्रमाणीकृतेऽस्माकं पितृपितामहादयो नानारम्भमिध्यात्वक्रियाप्रवृत्तयोSभूवन, अतोऽस्माकमपि तथैव वर्तितुमुचितम् ? इत्यत्रोच्यते - सौम्य ! मार्गेणापि नीयमानो मा उन्मार्गेण गमः, यतोऽस्माभिः संविग्राचरितमेव स्थापितं, न सर्वपूर्वपूरुषाचरितमित्युन्मत्त इव प्रलपति भवानिति । अत एवाह जं पुण पमायरूवं गुरुलाघवचितविरहियं सवहं । सुहसीलसढाइन्नं चरित्तिणो तं न सेवंति ॥ ८६ ॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy