SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धर्मरत्न प्रकरणम् ॥ ५६ ॥ +66 यत्पुनः ' आचरितं ' प्रमादरूपं ' संयमचाधकत्वात् । अत एव 'गुरुलाघव चिताविरहितं' सगुणमिदमपगुणं चेति पर्यालोवर्जितं, अत एव ' सवधं ' यतनाभावात् । 'सुखशीलाः ' इहलोकप्रतिबद्धाः, 'शठाः मिथ्यालम्बनप्रधानाः, तैराचीर्णमाचरितम् ' चारित्रिणः ' शुद्धचारित्रवन्तः 'तम सेवन्ते ' नानुतिष्ठन्ति । इति गाथार्थः ॥ ८६ ॥ अस्यैवोल्लेखं दर्शयन्नाह - जह सड्ढेसु ममसं राढाए असुद्ध उवहिभत्ताई । निद्देजवसहितूलीमसूरिगाईण परिभोगो ॥ ८७ ॥ यथा' इत्युपदर्शने, 'श्राद्धेषु' श्रावकेषु 'ममत्वं' ममीकारं, मदीयोऽयं श्रावकः, इति गाढाग्रहम् । - " गामे कुले बा नगरे व देसे ममत्तभावं न कहिंचि कुआ || ” इत्यागमनिषिद्धमपि केचित् कुर्वन्ति । तथा ' राढया ' शरीरशोभाकाम्यया 'अशुपधिभक्तादीनि केचिद्गहन्ति, तत्राशुद्धान्युद्गमादिदोषदुष्टानि, उपधिर्वस्त्रपात्रादिः, भक्तमशनं, आदिशब्दादुपाश्रयः, एतान्यप्यागमे निषिद्धानि । यत एवमार्षम् - " पिंड सेअं च वत्थं च चत्थं पायमेव य । अकप्पियं न इच्छेजा पडिगाहेज कपियं ॥ १ ॥ इह च राढाग्रहणं पुष्टालम्बनेन दुर्भिक्षाक्षेमादौ यतनयाऽशुद्धमपि गृह्णतो न दोषः इति ज्ञापनार्थम् । यतोऽभाणि पिण्डनिर्युक्तौ — “ एसो आहारविधि जह भणिओ सव्वभावदसी हिं । धम्मावस्सगजोगा जेण न हायंति तं कुजा ॥ १ ॥ " तथा " कारणपडिसेवा पुण भावेणासेवणत्ति दट्ठव्वा । आणाए तीए भावे सो मुद्रो मोक्खहेउत्ति ॥ १ ॥ " तथा ' निदेज ' इति पत्रलेखनेनाचन्द्रकालिकं प्रदत्ता वसतिर्गृहम् एषाऽपि साधूनामकल्पनीया, अनगारत्वहानेर्भप्रसंस्थापनादौ कायवधसंभवात् । पठघते च" अविकसिण जीवे कत्तो घरसंरणगुत्तिसदृष्यं । अविकत्तिया य तं तह पडिआ अस्संजयाण पहे ॥ १ ॥ " ततद्ग्रहणमप्येकै स्वोपज्ञवृत्तियुक्तम् ॥ ५६ ॥
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy