________________
उक्तश्चारित्र-धर्मः, [गतस्तृतीयोऽर्थाधिकारः] साम्प्रतं यतनाया अवसरः, तथा चाह
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढविं वा भित्तं (त्तिं) वा सिलं वा लेखें वा, ससरक्खं वा कायं ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कटेण वा, किलिंचेण वा अंगुलियाए वा सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिज्जा, अन्नं न आलिहाविज्जा, न विलिहाविज्जा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिदंतं वा न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणु-जाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १० ।
से भिक्खू वा इत्यादि, से इति निर्देशे स योऽसौ महाव्रतयुक्तो, 'भिक्षुर्वा भिक्षुकी वा'-आरम्भत्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानी-त्याह- 'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतः संयतः-सप्तदशप्रकारसंयमोपेतो विविधमनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहतप्रत्याख्यातपापकर्मेति, प्रतिहतंस्थितिहासतो ग्रंथिभेदेन प्रत्याख्यातं-हेत्वभावतः पुनर्वृद्धयभावेन पापं कर्म-ज्ञानावरणादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्तो वा सुप्तो वा जाग्रता, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं वक्ष्यमाणं न कुर्यात् । ‘से पुढविं वा' इत्यादि, तद्यथा-पृथिवीं का भित्तिं वा शिलां वा लेष्टुं (लोष्टं) वा, श्रीदशवैकालिकम् ।