Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 184
________________ तथा ताभ्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से-तस्य द्रुमस्य पुष्पं फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति ॥४१६॥ एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह - T एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्ति सुयं सिग्घं, नीसेसं चाभिगच्छ ॥४१७॥ एवंति, एवं द्रुममूलवत्, धर्मस्य - परमकल्पवृक्षस्य विनयो मूलंआदिप्रबन्धरूपं परम इत्युग्रो रसः से-तस्य फलरसवन्मोक्षः, स्कन्धादि - कल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः, किं-विशिष्ट इत्याह-येनविनयेन कीर्तिं - सर्वत्र शुभप्रवादरूपां, तथा श्रुतं - अङ्गप्रविष्टादि श्लाघ्यं-प्रशंसास्पदीभूतं निःशेषं - संपूर्णं चाधिगच्छतिप्राप्नोतीति ॥४१७॥ अविनयवतो दोषमाह जे य चण्डे मिए थद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कट्ठे सोयगयं जहा ॥४१८॥ जे यत्ति, यश्च चण्डो - रोषण: मृग: अज्ञो हितमप्युक्तो रुष्यति, तथा स्तब्धो-जात्यादि-मदोन्मत्तो दुर्वादी अप्रियवक्ता निकृतिमान् - मायोपेतः, शठः-संयमयोगेष्वानादृतः, एतेभ्यो दोषेभ्यो विनयं न करोति य उह्यते असौ पापः संसारस्त्रोतसा अविनीतात्मा-सकलकल्याणैकनिबन्धनविनयरहितः किमिवेत्याह- काष्ठं स्त्रोतोगतं नद्यादिवहनीपतितं यथा तद्वदिति ॥ ४१८॥ , विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडेण पडिसेहए ॥४१९॥ किं च विणयंपीति, विनयमुक्तलक्षणं य उपायेनापि - एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः सम्बन्ध:, चोदित उक्तः, श्रीदशवैकालिकम् । १६७

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240