Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 208
________________ निर्गतसुवर्णरूप्य इति भावः, गृहियोगं - मूर्च्छया गृहस्थसम्बन्धं परिवर्ज्जयति सर्व्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥ सम्मद्दिट्ठी सया सया अमूढे, अस्थि हु नाणे तवे संजमे य । तवसा धुणइ पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥४६७ ॥ तथा-सम्मद्दिट्ठीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढःअविप्लुतः सन्नेवं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्म्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृत्त्या, मनोवाक्कायसुसंवृतः-तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति ॥४६७॥ तहेव असणं पाणगं वा, लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावर जे स भिक्खू ॥४६८॥ किं च-तहेव असणंति, तथैवेति पूर्वर्षिविधानेनाऽशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याह - भविष्यत्यर्थः- प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयतिन स्थापयत्यन्यै, स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ॥ ४६८ ॥ विविहं खाइमसाइमं तहेव असणं पाणगं वा, विविहं खाइमसाइमं लभिता । छंदिय साहम्मिआण भुञ्जे, भुच्चा सज्झायरए जे स भिक्खू ॥४६९॥ श्रीदशवैकालिकम् । १९१

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240