Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
सौख्यमुत्तमं-प्रधानं प्रशमसौख्यं, केषामित्याह-रतानां पर्याये-सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह-नरकोपमं-नरकतुल्यं ज्ञात्वा दुःख-मुत्तमं-प्रधानं, उक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद्रमेताऽऽसक्ति कुर्यात्, क्वेत्याह-पर्याये उक्तस्वरूपे पंडितः-शास्त्रार्थज्ञ इति ॥४९२।। पर्यायच्युतस्यैहिकं दोषमाहधम्माउ भट्ठ सिरिओ अवेयं, ... जन्नग्गिविज्झाअमिवऽप्पते । हीलंति णं दुविहिअं कुसीला,
दाढुड्डिअं घोरविसं व नागं ॥४९३॥ धम्माउ इति, धर्मात् श्रमणधर्माद् भ्रष्टं-च्युतं, श्रियोऽपेतंतपोलक्ष्या अपगतं, यज्ञाग्निमग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसं, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः, हीलयन्तिकदर्थयन्ति पतितस्त्वमिति पंक्त्यपसारणादिना, एन-उन्निष्क्रान्तं दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलास्तत्संयोगो(सङ्गो)-चिता लोकाः, स एव विशेष्यते-दाढुड्डिअंति, प्राकृतशैल्यादुद्धृतदंष्ट्रं-उत्खातदंष्ट्र घोरविषमिव-रौद्रविषमिव नागं-सर्प, यज्ञाग्निसोपमानं लोकनीत्या प्रधानभावादप्रधानभावख्यापनार्थमिति ॥४९३॥
एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाहइहेवऽधम्मो अयसो अकित्ती,
दुन्नामधिज्जं च पिहुज्जणंमि । चुअस्स धम्माउ अहम्मसेविणो,
संभिन्नवितस्स य हिट्ठओ गई ॥४९४॥ इहेवत्ति, इहैव-इहलोक एवाऽधर्म इति, अयमधर्मः फलेन
श्रीदशवैकालिकम् ।
२०७

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240