Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
अथ विविक्तचर्या नाम द्वितीया चूला |
व्याख्यातं प्रथमचूडाध्ययनम् अधुना द्वितीयमारभ्यते, अस्यौघतः सम्बन्धः प्रतिपादित एव विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तं, इह तु विविक्तचर्योच्यत इत्ययमभिसम्बन्धः
चूलिअं तु पवक्खामि, सुअं केवलिभासिअं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥ ५०० ॥
चूलियंति, चूडां- प्राग्व्यावणितशब्दार्थां तुशब्दविशेषितां भावचूडां, प्रवक्ष्यामीति-प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषितमिति, इयं हि चूडा श्रुतं श्रुतज्ञानं वर्तते, कारणे कार्योपचाराद्, एतच्च केवलिभाषितं - अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणं, एवं च वृद्धवादः- “कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुर्मासिकादौ उपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्नाऽसौ तीर्थकरं पृच्छामीति गुणावर्जित-देवतया नीता श्रीसीमन्धरस्वामिपादान्तिके, परिपृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिघाय भगवतेमां चूडां ग्राहितेति," इदमेव विशेष्यते - यां श्रुत्वा - आकर्ण्य सपुण्यानां - कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे - अचिन्त्य - चिन्तामणिकल्पे चारित्रधर्मे उत्पद्यते मतिः- संजायते भावतः श्रद्धा, अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवति ॥ ५०० ॥ एतद्धि प्रतिज्ञासूत्रं, इह चाध्ययने चर्यागुणा अभिधेयास्तत्प्रवृत्तौ मूलपादभूतमिदमाह
अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥ ५०१ ॥ अणुसोएत्ति, अनुश्रोतः प्रस्थिते नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाऽभ्यासात्
श्रीदशवैकालिकम् ।
-
२११

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240