Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 234
________________ विवजयन्-विविधंअनेकैः प्रकारैः सूत्रोक्तैः परिहरन्विहरेदुचितविहारेण कामेष्विच्छाकामादिष्वसज्यमानः-सङ्गमगच्छन्, एकोऽपि विहरेत्, न तु पार्श्वस्थादि-पापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात् । तथा चान्यैरप्युक्तं - "वरं विहर्तुं सह पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैर-पण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ॥१॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चाऽरयः । असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः ॥२॥" तथा-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः? ॥३॥" तथा-"ब्रह्महत्या सुरापानं, स्तेयं गुर्वषनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥४॥ इत्यादि ॥५०९॥ विहारकालमानमाहसंवच्छरं वावि परं पमाणं, बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥५१०॥ संवच्छरं ति, संवत्सरं वाऽप्यत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते, तमपि, अपिशब्दात् मासमपि, परं प्रमाणंवर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च वर्ष चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्षं च वर्षासु चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत्, यत्रैको वर्षाकल्पो मासकल्पश्च कृतः, अपि तु सङ्गदोषाद् द्वितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किं बहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद्भिक्षुराऽऽगमाऽऽदेशेन वर्तेतेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात्, अपि तु सूत्रस्यार्थः-पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो श्रीदशवैकालिकम् । २१७

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240