Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
धृतिमतः-संयमे सधृतिकस्य सत्पुरुषस्य-प्रमादजयात् महापुरुषस्य नित्यंसर्वकालं सामायिकप्रतिपत्तेराऽऽरभ्याऽऽमरणान्तं तमाऽऽहुलॊके प्रतिबुद्धजीविनं तमेवंभूतं साधुमाहुःअभिदघति विद्वांसो लोके-प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन-कुशलाऽभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति ॥५१॥
शास्त्रमुपसंहरन्नाह-उपदेशसर्वतत्त्वमाहअप्पा खलु सययं रक्खिअव्वो,
सविदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ,
सुरक्खिओ सव्वदुहाण मुच्चइ ॥५१५॥त्तिबेमि इइ विवित्तचरिया चूडा समत्ता २ ॥
॥ इइ दसवेयालियं सुत्तं समत्तं ॥ __ अप्पेति, आत्मा खल्विति-खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि, सततं-सर्वकालं रक्षितव्यः-पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः-स्पर्शनादिभिः सुसमाहितेन-निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन् जातिपन्थानंजन्ममार्ग संसारमुपैति-सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन सर्वदुःखेभ्यः-शारीरमानसेभ्यो विमुच्यते-विविधं-अनेकैः प्रकारैः अपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते विमुच्यते ॥५१५॥ इति ब्रवीमीति पूर्ववत् ॥
इति विविक्तचर्यानाम्नी द्वितीयचूला समाप्ता २ ॥
|| समाप्तेयं दशवैकालिकस्य लघुटीका ||
2
.
0
श्रीदशवैकालिकम् ।

Page Navigation
1 ... 235 236 237 238 239 240