Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 235
________________ यथाऽऽज्ञापयति-नियुङ्क्ते तथा वर्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगात्, इत्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेन अनुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत्, तदाशातनाप्रसङ्गादिति ॥५१०॥ .. एवं च विविक्तचर्यावतोऽसीदनगुणोपायमाहजो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं । किं मे कडं किं च मे किच्चसेसं ?, किं सक्कणिज्जं न समायरामि ? ॥५११॥ जोत्ति, यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रायोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्याऽऽत्मानं कर्मभूतं आत्मनैव करणभूतेन, कथमित्याह-किं मे कृतमिति, छान्दसत्वातृतीयार्थे षष्ठी, किं मया कृतं ? शक्त्यनुरूपं तपश्चरणादियोगस्य, किं च मम कृत्यशेषंकर्तव्यशेषं उचितं ?, किं शक्यं-वयोऽवस्थानुरूपं वैयावृत्यादि न समाचरामि-न करोमि, तदकरणे हि तत्कालं नाशयति ॥५११॥ तथाकिं मे परो पासइ ? किं च अप्पा ?, किं वाऽहं खलिअं न विवज्जयामि ?। . इच्चेव सम्मं अणुपासमाणो, अणागयं नो पडिबंध कुज्जा ॥५१२॥ किं मेत्ति, किं मम (स्खलितं) परः-स्वपक्षपरपक्षलक्षणः पश्यति, किंवाऽऽत्मा क्वचिन्मनाक् संवेगापन्नः ?, किं वाऽहं ओघत एव स्खलितं न विवर्जयामीत्येवं सम्यगनुपश्यन्ननेनैव प्रकारेण स्खलितं २१८ श्रीदशवैकालिकम् ।

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240