Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 226
________________ पलिओवमं झिज्झइ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥४९६ ॥ इमस्सेति, अस्य तावदित्यात्मनिर्देशे, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः, दुःखोपनीतस्य सामीप्येन प्राप्तदु:खस्य क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्म्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशधृति- (दोष) रहितं ? एतत् क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति ॥४९६॥ विशेषेणैतदेवाह / " न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेणऽविस्सइ, अविस्सई जीविअपज्जवेण मे ॥ ४९७ ॥ न मेत्ति, न मम चिरं - प्रभूतकालं दुःखमिदं - संयमारतिलक्षणं भविष्यति, किमित्याह - अशाश्वती- प्रायो यौवनकालावस्थायिनी भोगपिपासा - विषयतृष्णा, जन्तो:- प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति-न यदि शरीरेणानेनं करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोपयास्यति जीवितपर्ययेण जीवितस्य व्यपगमेन मरणेनैवं निश्चितः स्यादिति ॥४९७॥ - अस्यैव फलमाह जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं । श्रीदशवैकालिकम् । २०९

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240