Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
दर्शयतियदुताऽयशः-अपराक्रमकृतं न्यूनत्वं, तथाऽकीर्तिरदानपुण्यफलप्रवादरूपा, तथा दुर्नामधेयं चं-पुराणः पतित इति कुत्सितनामधेयं च भवति, क्वेत्याह-पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके, कस्येत्याहच्युतस्य-धर्मादुत्प्रव्रजितस्येतिभावः, तथाऽधर्मसेविन:कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः, तथा संभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः-नरकेषु अवपात(धूपपात) इति ॥४९४॥
अस्यैव विशेषाऽपायमाहभुंजित्तु भोगाइं पसज्झचेअसा,
तहाविहं कटु असंजमं बहुं । गइं च गच्छे अणभिज्झिअं दुहं,
बोही अ से नो सुलहा पुणो पुणो ॥४९५॥ भुंजित्तु त्ति, स-उत्प्रव्रजितो भुक्त्वा भोगान्-शब्दादीन् प्रसह्यचेतसा-धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधं अज्ञोचितफलं कृत्वाऽभिनिर्वाऽसंयमं कृष्याद्यारम्भरूपं बहुं-असन्तोषात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छत्यनभिध्यातां-अभिध्याता-इष्टा न तामनिष्टामित्यर्थः काचित्सुखाऽप्येवंभूता भवत्यत आह-दुःखां-प्रकृत्यैवासुन्दरां दुःखजननी, बोधिश्चास्य जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः-प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति ॥४९५॥
यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याहइमस्स ता नेरइअस्स जंतुणो,
दुहोवणीअस्स किलेसवत्तिणो ।
२०८
श्रीदशवैकालिकम् ।

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240