Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
अज्जत्ति, अद्य तावदहं-अद्य-अस्मिन् दिवसेऽहमित्यात्मनिर्देशे, गणी स्यां-आचार्यो भवेयं, भावितात्मा-प्रशस्तआगम(योग) भावनाभिः, बहुश्रुत-उभयलोकहितबह्वागमयुक्तः, यदि किं स्यादित्याह-यदि अहमरमिष्यं-रतिमकरिष्यं, पर्याये-प्रव्रज्यारूपे, सोऽनेकभेद इत्याहश्रामण्ये-श्रमणानां सम्बन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याहजिनदेशिते-निर्ग्रन्थसम्बन्धिनीति ॥४९०॥
अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाहदेवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥४९१॥
देवलोकसमाणोति, देवलोकसमानस्तु-देवलोकसदृश एव पर्यायः-प्रव्रज्यारूपो महर्षीणां-सुसाधूनां, रतानां-सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्त्येवं सुसाधवोऽपि, ततोऽधिक भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । अरतानां च-भावतः सामाचार्यसक्तानां च, चशब्दात् विषयाभिलाषिणां च भगवल्लिगविडम्बकानां क्षुद्रसत्त्वानां महानरकसदृशो-रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति ॥४९१॥
एतदुपसंहारेणैव निगमयन्नाहअमरोवमं जाणिअ सुक्खमुत्तमं,
रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअ दुक्खमुत्तमं,
रमिज्ज तम्हा परिआइ पंडिए ॥४९२॥ अमर त्ति, अमरोपमं उक्तन्याया-द्देवसदृशं ज्ञात्वा-विज्ञाय
श्रीदशवैकालिकम् ।
२०६

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240