Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 222
________________ जया अ थेरओ होइ, समइक्कंतजुव्वणो । मच्छुव्व गलं गिलित्ता, स पच्छा परितप्पइ ॥४८७॥ जया येति, यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इतिभावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं-बडिशं गिलित्वाऽभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति ॥४८७॥ एतदेव स्पष्टयतिजया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥४८८॥ जया य कुकुडुंबस्सेत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभि-विहन्यतेविषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥४८८॥ एतदेव स्पष्टयतिपुत्तदारपरीकिन्नो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥४८९॥ पुत्रदारेति, पुत्रदारपरिकीर्णो-विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा ! हा ! किं मयेदं असमञ्जसमनुष्ठितमिति ॥४८९॥ कश्चित् सचेतनो नर एवं च परितप्यत इत्याहअज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ । जइऽहं रमंतो परिआए, सामन्ने जिणदेसिए ॥४९०॥ श्रीदशवैकालिकम् । २०५

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240