Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
वाक्यशेषः, किं ?, मोक्षो भवति-प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा-न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह-इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा-अनशनप्रायश्चितादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति, न किञ्चिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं भवति-अष्टादशं स्थानं भवति १८ ।२१।
भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोको-पन्यासेऽपि न विरोध:
जया य चयई धम्मं, अणज्जो भोगकारणा ।
से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ॥४८२॥ .. जया येति-यदा चैवमष्टादशसु व्यावर्त्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्मं-चारित्रलक्षणं, अनार्य इत्यनार्य इवानार्योम्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात्-शब्दादिभोगनिमित्तं सधर्मत्यागी, तत्र-तेषु भोगेषु मूच्छितो गृद्धो बालोऽज्ञः, आयतिआगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ॥४८२॥
एतदेव दर्शयतिजया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठो, स पच्छा परितप्पइ ॥४८३॥ जया उत्ति, यदाऽवधावितोऽपसृतो भवति संयमसुखविभूतेः,
श्रीदशवैकालिकम् ।
२०३

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240