________________
जया अ थेरओ होइ, समइक्कंतजुव्वणो । मच्छुव्व गलं गिलित्ता, स पच्छा परितप्पइ ॥४८७॥
जया येति, यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इतिभावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं-बडिशं गिलित्वाऽभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति ॥४८७॥
एतदेव स्पष्टयतिजया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥४८८॥
जया य कुकुडुंबस्सेत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभि-विहन्यतेविषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥४८८॥
एतदेव स्पष्टयतिपुत्तदारपरीकिन्नो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥४८९॥
पुत्रदारेति, पुत्रदारपरिकीर्णो-विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा ! हा ! किं मयेदं असमञ्जसमनुष्ठितमिति ॥४८९॥
कश्चित् सचेतनो नर एवं च परितप्यत इत्याहअज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ ।
जइऽहं रमंतो परिआए, सामन्ने जिणदेसिए ॥४९०॥ श्रीदशवैकालिकम् ।
२०५