________________
उत्प्रव्रजित इत्यर्थः, इन्द्रो वेति-देवराज इव पतितः मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इतिभावः, क्षमा-भूमिः, सर्वधर्मपरिभ्रष्ट:सर्वधर्मेभ्य:-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः-सर्वतश्च्युतः, स पतितो भूत्वा पश्चान्मनाग् मोहावसाने परितप्यते, किमिदमकार्यं मयानुष्ठितमित्यनुतापं करोतीति ॥४८३॥
जया अ वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥४८४॥
जया येति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति उन्निष्क्रान्तः सन्नऽवन्द्यः तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यते इति एतत्पूर्ववदेवेति ॥४८४॥
जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया व रज्जपब्भट्ठो, स पच्छा परितप्पइ ॥४८५॥
जया वेति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव तदा राजेव राज्यपदभ्रष्टो महतो भोगाद्वियुक्तः (विप्रमुक्तः) स पश्चात्परितप्यत एवेति पूर्ववदेवेति ॥४८५॥
जया अ माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व्व कब्बडे छूढो, स पच्छा परितप्पइ ॥४८६॥
तथा जया येति, यदा च मान्यो भवति अभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन, तदा श्रेष्ठीव कर्बटे-महाक्षुद्रसन्निवेशे क्षिप्तोऽमात्यः सत्परितप्यत, इति, एतत्समानं पूर्वेणेति ॥४८६॥
२०४
श्रीदशवैकालिकम् ।