________________
पुढविं न खणे न खणावए,
. सीओदगं न पिए न पियावए । अगणिसत्थं जहा सुनिसियं,
तं न जले न जलावए जे स भिक्खू ॥४६२॥ तथा पुढवीति, पृथ्वीं-सचेतनादिरूपां न खनति स्वयं, न खानयति परैः, "एकग्रहणे तज्जातीयग्रहणमि"ति खनन्तमप्यन्यं नानुजानातीति, एवं सर्वत्र वेदितव्यं, शीतोदकं-सचितं पानीयं न पिबति स्वयं, न पाययति परान्, अग्निः षड्जीवघातकः, किंवदित्याह-शस्त्रंखड्गादि यथा सुनिशितमुज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं, न ज्वालयति परैः, य इत्थंभूतः स भिक्षुरिति ।
आह-षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति ?, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थं, ततश्च न दोष इति ॥४६२॥ ___ अनिलेण न वीए न वीयावए,
हरियाणि न छिदे न छिंदावए । बीयाणि सया विवज्जयंतो,
सच्चित्तं नाहारए जे स भिक्खू ॥४६३॥ तथा अनिलेति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्याऽऽत्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि-हरितफलरूपाणि व्रीह्यादीनि सदासर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचितं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ॥४६३।।
औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवहणं तसथावराण होइ,
पुढवीतणकट्ठनिस्सियाणं । श्रीदशवैकालिकम् ।
१८९